SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाहतत्वम् । विरात्रममारलवणानाशिनी ब्रह्मचारिणी भूमौ सह सयोयातामिति तत्सूत्रे तत: प्रभृति विवाहकर्मण जहमिति भट्टनारायण व्याख्यानात्। अतएव तत्पत्यभिवादनानन्तरं भव. देवेनापि प्रायश्चित्तहोमवामदेव्यगानदक्षिणा लिखिताः । यजुर्वेदिनान्तु प्रेक्षकाभिमन्त्रणानड़चर्मोपवेशनान्तो विवाहः आचार्य्याय वरं ददातौति पारस्करसूत्रेण तदनन्तरं वरशब्द. वाथगवादिदक्षिणादानस्योतत्वात्। अतएव 'विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुम यस्य चान्ते। विवाहादा. वेकमेवात्र कुर्यात् श्राद्धं नादी कर्मण: कर्मणः स्थादिति' छन्दोगपरिशिष्टवचने विवाहादिरिति समशनीयचरहोम. गृहप्रवेशयानारोहण चतुष्यथामन्त्रणाक्षभङ्गसमाधानार्थ-होम. चतुर्थीहोमादिशब्देन ग्रहणम्। एषु विवाहादिगर्भाधानान्तकर्मसु एकमेव श्राञ्च कार्यमिति श्राद्धविवेकः। अतः समशनीयचरुहोमादयः साङ्गविवाहाद्भिवा इति । ततश्च नाशौचं राज्ञां राजकर्मणौत्यधिकत्य न देवप्रतिष्ठाविवाहयोः पूर्वसंभूतयोरिति विष्णुसूत्रेणारब्धविवाह एव अशौचाभावो न तु समशनीयचरुहोमादौ विवाहारम्भश्च वृद्धिशाई 'व्रतयज्ञविवाहेष श्राडे होमेऽर्चने जपे। प्रारब्ध सूतकं न स्यादनारधे तु सूतकम्। आरम्भो वरणं यज्ञे सङ्कल्यो व्रतजापयोः । नान्दी. श्राद्धं विवाहादौ श्राडे पाकपरिष्किया' इति राघवभतवचनात् पाकपरिक्रियेति साग्नेर्दर्शश्राद्धविषयं तत्र तस्य तदुद्धरणस्य असाधारणानत्वात्। न चैवं विवाहपूर्वकतेन नान्दी. मुखश्राइन सर्वेषां श्राद्धवत्त्वात् सर्वेषामेवारम्भो भूतः इति वायं विवाहार्थं कृतवृद्धिशाहसमशनौयादीनामारम्भकत्वा. भावात् उद्देश्यत्वगर्भकत्वादारम्भपदार्थस्य अन्यथा अन्यार्थवरणादावन्यारम्भः स्यात्। अक्षभङ्गाभावात् तदर्थ होमाकरणे । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy