________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उहाहतत्वम् ।
स्त्रीधनं तथा। धार्या सा वर्षमेकन्तु हेयाम्यमी विधानतः । अथ प्रवृत्तिरागच्छत् प्रतीक्षेत समात्रयम्। प्रत ऊई प्रदातव्या कन्यान्धी यथेच्छतः। प्रहत्तिरागमनवार्ता। मनुः । 'मङ्गलार्थ वस्त्ययनं यजस्तासां प्रजापतेः। प्रयुज्यते विवाहेषु प्रदानं खाम्ब कारणम् । पाणिग्रहणिका मन्त्रानियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विहद्भिः सप्तमे पदे'। खस्त्ययनं कुशलेन कालातिवाहनहेतुकं करणसाधनात् कन. कधारणादि प्रोम् खस्तिं भवन्तो ब्रूवन्विति च यश्च प्रजापतिदैवतो वैवाहिको होमस्तत्सर्वे मङ्गलार्थम् अभिमतार्थसिद्धिमङ्गलं तदर्थमवैधव्यार्थमिति यावत् । वाम्यकारणन्तु प्रदानं न तु वाग्दानं रत्नाकरकतापि प्रदाने नैव कन्यायां धरस्य स्वाम्यं आयते कन्यादातुः स्वाम्यं निवर्त्तते इति व्याख्याते निष्ठा भायात्वस्य समाप्तिरूपा सप्तमे पदे गतायां कन्याया. मिति बोध्यम्। तदानीं गोनापहारमाह लघुहारीतः । 'खगोवाद नश्यते नारी बिवाहात् सप्तमे पदे। पतिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया'। पाणिग्रहणादपि पिटगोवापहारमाह श्राद्धविवेके। वृहस्पतिः । 'पाणिग्रहणिका मन्त्राः पिटगोत्रापहारकाः । भर्गोित्नेख नारीणां देयं पिण्डोदकं ततः'। यत्तु सपिण्ड नस्य गोत्रापहारित्वप्रतिपादकव. चनं 'संहितायान्तु भार्यायां सपिण्डीकरणान्तिकम्। पैत्रिक भजते गोत्रमूडन्तु पतिपैत्रिकम्'। इति कात्यायनीयं तत्शाख्यन्तरीयं शिष्टव्यवहाराभावात्। अतएव अनुमन्त्रिता गुरु गोत्रेणाभिवादयेत इति गोभिलोक्तं सप्तपदीगमनानन्तरं पत्युरभिवादनं तत्पतिगोवे कर्त्तव्यमिति भहनारायण रुक्तम् एतेन पिलगोवेणेति सरलाभवदेवभट्टाभ्यामुक्त हेयम्। एतत्पत्य. भिवादान्त एव साममानां विवाहः तावुभौ तत: प्रति
For Private and Personal Use Only