________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
उद्दाहतत्त्वम् ।
१२७
1
नस्य निष्पन्नत्वेनाधिकारवैकल्यास तस्य पुनरावृत्तिरिति । मातुः पूर्वं मातुलो बोध्यः यथा नारदः । ' पिता दद्यात् स्वयं कन्यां भ्राता वानुमतः पितुः । मातामहो मातुलश्च सकुल्यो बान्धवस्तथा । माता त्वभावे सर्वेषां प्रकृतौ यदि वर्त्तते तस्यामप्रकृतिस्थायां कन्यां दद्युः खजातयः । इत्यर्द्धमधिकं पराशरभाष्ये माधवाचाय्र्येण लिखितं मातुः कन्यादाटत्वे वृश्रावाभावो बोध्यः बान्धवः पितामहः विष्णुवचनैकवाकात्वात् एवमेव रत्नाकरः एवञ्च सकुल्यपितामहयोर्नारदोक्तक्रमो न ग्राह्यः किन्तु विष्णुक्तवच्यमाणयाज्ञवल्कयोक्तक्रमो ग्राह्यः पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात् तस्यामित्यनेन मातुरुपस्थितत्वात् स्वजातय इत्यनेन मातामहमातुलेतरमातृपक्षसकुल्या उच्चन्ते । संस्कृतानामधिकारमाह याज्ञवल्काः । 'असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यव निजादंशाद्दत्त्वांशन्तु तुरीयकम्' । असंस्कृता भ्रातरः भगिन्यच पूर्वसंस्कतैरुपनीतेः । अन्यथा मन्त्रपाठानधिकारापत्तेः तुरीयकं विवाहोचितद्रव्यमिति दायतत्त्वं विवेचितम् । तत्र विवाहोचितद्रव्यदाने संस्कृतासंस्कृतभेदानुपयोगात् पूर्वसंस्कृतैरिति कन्या संस्कार एवं उपयुक्त तथा पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्व नाशे प्रक्वतिस्थः परः परः । अप्रयच्छन् समाप्नोति भ्रूणहत्या - मृतावृतौ । गम्यन्वभावे दातॄणां कन्या कुय्यात् स्वयं वरम् । सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् । दत्तामपि हरेत् कन्यां श्रेयांश्वेवर श्रव्रजेत्' । तथेत्यनेन नारदोक्तमातामहाद्याः समुच्चिताः । गम्यं सवर्णत्वादिना खप्रापणार्हं वरं स्वप्रदानेन पतिं कुय्यादित्यर्थः । 'दत्तात्मा तु स्वयं दत्तः' इति याज्ञवल्कयोक्त स्वयं दत्तपुत्रस्य वादनवत् दत्तां
For Private and Personal Use Only