SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दातवम् । काsधर्मकारिण्यो भवन्ति इति तथाऽध्यापयितुस्तद्दिवाहम न्त्राध्यापयितुरेतदेव सङ्गरकारित्वमेवेत्यर्थः इति रत्नाकरः श्रन्यथेत्यव ताः परिणीताः इति पठितं व्याख्यातञ्च हरिना थोपाध्यायैः ताः कन्यका विवाहिता इति प्रतिसारे । वस्तुतस्तु श्रध्यापयितुर्गु रोस्तथा कन्यका उद्दाहिताः एतदेव सङ्करात्मकाधर्मकारित्वं भजन्त एवेत्यर्थः । अतएव आदिपर्वणि 'प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् । गृहाण विधिवत् पाणिं मम मन्त्रपुरस्कृतम्' । कच उवाच । 'त्वं भद्रे ! धर्मतः पूज्या गुरुपुत्री सदा मम । यथा मे सगुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैव मां वक्तुमर्हसि । गुरुपुत्रीति कृत्याहं प्रत्याचक्षे न दोषतः । दोषतो दृष्टदोषतः । व्यक्त मत्स्यसूके । 'समानप्रवरा वापि शिष्यसन्ततिरेव च । ब्रह्मदातुगुरोश्चैव सन्ततिः प्रतिषिध्यते' । काश्यपः । 'सप्तपौनभवा: कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला । उदकस्पर्शिता या च या च पाणिग्टहीतिका । अग्निं परिगता या च पुनर्भू प्रभवा च या । इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् । कृतकौतुकमङ्गला ब्रद्दकङ्कणा । उदकस्पर्शिता उदकपूर्वं दत्तेति रत्नाकरः । हारीतः । 'ज्येष्ठेऽनिर्विष्टे कनीयान् निर्विशन् परिवेत्ता भवति परिविन्नो ज्येष्ठः परिवेदनीया कन्या परिदायी दाता परिकर्त्ता याजकः ते सर्वे पतिता इति' । ज्येष्ठमाह देवलः । 'वहिर्वर्णेषु चारित्राद् यमयोः पूर्वजन्मतः । यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरचैव तस्मिन् यैष्ठं प्रतिष्ठितम्' । जन्मप्राथम्यात् ज्यैष्ठं यमजयोः न तु निषेकप्राथम्याज्जन्म प्राथम्य सन्देहे मुखदर्शनप्राथम्यात् ज्येष्ठं प्रतिष्ठितं वस्मिन् सन्तानः प्रतिष्ठितः पितरच प्रतिष्ठिताः । अनि For Private and Personal Use Only ११८ .
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy