SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । प्रसिहमादिपुरुषब्राह्मणरूपं गोत्रं तेन काश्यपीगोत्रं यस्य स काश्यपगोत्रः प्रवरस्तु गोत्रप्रवर्तकस्य मुनावर्तको मुनिगण इति माधवाचार्यः । एवञ्च यद्यपि राजन्यविशां प्रतिखिकगोत्राभावात् प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ तथा यजमानस्यायान् गोत्रप्रवरान् प्रणीतेत्युक्ता पौरोहित्यान् राजन्यविशां प्रणौतेति आश्वलायन इति मिताक्षरा अतएवासमानार्षगोत्रजामिति ब्राह्मणादिवर्णत्रयविषयमिति सम्बन्धविवेकः तर्हि शूट्रस्य श्राहादावधिकारश्रुतेः कथं गोत्रोचारणमिति चेत् 'गोनं खरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि । गोवस्तु तर्पणे प्रोक्त: कर्ता एवं न मुह्यति' इति गोभिलीयदर्शनादाकासितत्वेन 'शूद्राणां मासिकं कायं वपनं न्यायबर्तिनाम्। वैश्यवच्छौचकल्पच हिजोच्छिष्टस्य भोजनम्' इति मनुवचने चकारममुच्चितगोत्रेऽपि वैश्यधर्मातिदेशात् पूर्वपुरोहितगोत्रभामित्व' प्रतीयते। तर्हि न समानगोत्रां समानप्रवरा भायां विन्देतेत्यनेन शूद्रस्यापि सगोत्रा कथं न निषिद्धाते इति चेदनोपदिष्टातिदिष्टगोत्रस्यैव निषेधो न तु अतिदिष्टातिदिष्टशूद्रगोत्रादेः अन्यथातिदेशे क्षत्रियवैश्यमानो. पादानं व्यर्थं स्यादिति न्यायमूलं प्रागुक्तमनुशातातपवचने द्विजातिग्रहणं सगोत्नावर्जने शूद्रव्यावृत्त्यर्थं सपिण्डसमानोदकता तु शूद्रेऽप्यविशिष्टा अन्यथा ‘पञ्चमात् सप्तमादूच माटतः पिवतः क्रमात्। सपिण्डता निवर्तेत सर्ववणेष्वयं विधिः' इति। हरिनाथोपाध्यायतनारदवचने चातुर्वण्यसाधारणं वैवाहिकसापिण्डविवेचनं व्यर्थं स्यात्। वौधायन: 'सगोत्रावेदमत्या उपयच्छे न्मावदेनां विभृयादिति' सुमन्तुः 'पिट. खसमुतां माखस्सुतां मातुलमुतां मालसगोत्रां समानार्षे यों विवाह चान्द्रायणं चरेत् परित्यज्य चैनां विभ्यात्' इति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy