________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशी तत्त्वम् ।
१०५
तदा नियतं द्विराषाढ़ः सुरशयनविधिर्द्वितौये मासि' । राज्ञा चन्द्रेण विवर्जिताम् अमावास्याम् । पूर्वं कृष्णपचे मिथुने संक्रान्त इति शेषः । हरिनाथोपाध्यायास्तु यमः । 'चौराब्धौ शेषपर्य्यते आषाढ्यां संविशेद्दरिः । निद्रां त्यजति कार्त्तिक्यां तयोस्तं पूजयेत् सदा । ब्रह्महत्यासमं पापं चिप्रमेव व्यपोहति 1 हिंस्रात्मकैश्च किं तस्य यतैः कार्य्यं महात्मनः । प्रखापे च प्रबोधे च पूजितो येन केशवः । श्राषाढशलैकादशौमारभ्य पौर्णमासौ पय्यन्त विष्णोर्निद्राग्रहणरूपशयनसमयः । अतएव एकादश्यां शयनमभिधाय तदादिदिनपञ्चके कर्म कथनं ब्रह्मपुराणे । वराहपुराणोये तु । एकादशीकालीनमन्बे निद्रा। ग्रहणाभिधानम् । यमस्मृतौ पौर्णमास्यां शयनाभिधानम् आषाढ़ौपदस्यानुपाधेस्तत्रैव प्रवृत्तेः । एवञ्च ब्रह्मपुराणे । यद्यपि एकादश्यां प्रबोधनमुक्तं तथापि तदादिदिनपञ्चकमेव प्रबोधसमयः । तेन वराहपुराणे दादश्यां प्रबोधाभिधानम् । यमस्मृतौ कार्त्तिक्या प्रबोधाभिधानं सर्वसमञ्जसमिति । एवमेव श्रीदत्तोपाध्यायाः । कल्पतरुस्तु एकादश्यामेव शयनं प्रबो धश्च । यमस्म तावाषाढ़ीकार्त्तिको पदमेकादशोपरम् आषाढ़स्येयं कार्त्तिकस्येयमिति व्युत्पच्या न तत्प्रत्ययानुपपत्तिः । अपवादविषय के क्वचिदुत्सर्गप्रवृत्तं रित्याहु: श्रीभगवद्दाक्यम् । 'मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने । फलमूलजलाहारी हृदि शल्यं ममार्पयेत्' । फलाहारपदमशनगर्भं तेन सर्वथा अनशनपरत्वम् । अत्र मलमासादिकृतविशेषो मलिम्लुचतत्त्वेऽनुसन्धेयः । विरुद्ध गुरुवाक्यस्य यदव भाषितं मया । तत् क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुत्सया ।
इति वन्द्यघटोय हरिहरभट्टाचाय्यात्मजश्रीरघुनन्दनभट्टाचाय्येविरचिते तितत्त्वं स्म एकादशीतत्त्व समाप्तम् ।
For Private and Personal Use Only