________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
एकादशीतत्त्वम्। रात्र विचिन्तयेत्'। वचनान्तरम्। 'रेवत्यन्तो यदा रात्री हादश्या च समन्वितः । तदा विबुध्यते विष्णुर्दिनान्त प्राम्य रेवतीम्'। दिनान्ते विधा विभक्तदिनटतीयभागे दिवोस्थानमित्यनुरोधात्। अतएव 'रात्रौ विबोधो विनिहन्ति पौरान् । स्वापो दिवा राष्ट्रकुलं नृभर्तः। सन्ध्याइये स्वल्पफला धरित्री भवेन्नराणामपि रोगदुःखम्' इति श्रुतेः। वराहपुराणे। 'हादश्यां सन्धिसमये नक्षत्राणामसम्भवे। प्राभाकासितपक्षेषु शयनावर्त्तनादिकम् । तदेवं शयनादो कालचतुष्टयं हादश्यां निशादौ नक्षत्रयोगः । तदभावेऽपि निशाद्यनादरेण तिथ्यन्तरे पादयोगः। तस्याप्यभावेऽपि सन्ध्यायां नक्षत्रमानयोगः तस्याप्यभावे हादश्यामेव सन्ध्यायामिति । विष्णुधर्मोत्तरे । 'किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा। पौषणशेषेण किन्तेन प्रतिपद्यथयो निशि' इति दशमीप्रतिपदोनिषेधादेकादश्यादिपौर्णमास्यन्तानां तिथौनामभ्यनुज्ञानम् । पद्मपुराणे सर्वदेव. शयनावर्तनादिकमुक्त यथा। 'प्रतिपड़नदस्योता पवित्रा. रोहणे तिथिः । श्रिया देव्या हितोया तु तिथीनामुत्तमा स्मता। तीया तु भवान्याश्च चतुर्थी तत् सुतस्य च । पञ्चमी सोमराजस्य षष्ठी प्रोता गुहस्य च । सप्तमौ भास्करस्योता दुर्गायाश्चाष्टमी स्मता। मातृणां नवमी प्रोता दशमो वासु. केस्तथा । एकादशी ऋषीणान्तु हादशौ चक्रपाणिनः' । चक्र. पाणिन इति पण व्यवहार इत्यस्मात् । 'त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्दशी। मम चैव मुनिश्रेष्ठ ! पौर्णमासी तिथि: स्मृता । यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या। तस्य देवस्य यस्मिंश्च शयनावर्तनादिकम् । अत्र हरिशयनाद्याषाढ़ादिविधानात्तत्साहचर्यादन्येषामपि तथा । ज्योतिषेऽपि । 'व्रजति यदा मिथनं विहाय कर्क त्यत्वा राजविवर्जितां तिथिं सूर्यः । भवति
For Private and Personal Use Only