________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
एकादशीतत्त्वम् । रात्रौ प्रसुप्तमित्यन्वयः बोधनन्तु दिवैव। वाराहे। 'कौमुदस्य तु मासस्य या सिता द्वादशी भवेत्। अर्चयेद यस्तु मां तत्र तस्य पुण्यफलं शृणु। यावल्लोका हि वर्तन्ते यावत् त्वञ्चैव माधवि !। मनतो जायते तावदन्यभक्तो न जायते'। कौमुदस्य कात्तिकस्य । माधवौति पृथिव्याः सम्बोधनम् । 'कत्वा वै मम कर्माणि हादश्यां मत्परोनरः। ममैव बोधनार्थाय इमं मन्त्रमुदीरयेत् । महेन्द्ररुट्रैरभिनयमानो भवानृषिर्वन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जाग्रष्व जागृष्व च लोकनाथ !। मेघागता निर्मल पूर्णचन्द्रः शारापुष्पाणि च लोकनाथ !। अहं ददानौति च पुण्य हेतोर्जाग्रष्व जागृष्व च लोकनाथ !। एवं कर्माणि कुर्वीरन् हादश्यां ये यशस्विनि। मम भका नरथष्ठास्त यान्ति परमां गतिम् । अत्र मन्त्रहयपाठान्तरम् ‘उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रा जगत्पते !। त्वया चोस्यीयमानन उस्थितं भुवनत्रयम्' इति सम्प्रदायागतस्तुतीयश्लोके इति वाचस्पतिमिश्राः। शयनोस्थानमन्त्रास्तु कल्पतरुप्रभृतिग्रन्थसंवादाल्लिखिताः। तदेवं हादश्याम एकादश्यां वा रेवत्यन्तपादयोगवशादिवोस्थान नक्षत्रयोगाभावे तु हादश्यामेव कारयेदिति गुरुचरणा: । जीमूतवाहनस्तु भविष्य। 'आभाकासितपक्षेषु मैत्र श्रवणरेवती। आदिमध्यावसानेषु प्रस्खापावत बोधनम्। आभाकासितपक्षेषु आषाढ़भाद्र कार्तिक शुक्लपक्षेषु एषाञ्च द्वादश्या प्राप्तौ मुख्यः कल्पः । भविष्य पुराणम्। 'निशि स्वापो दिवोस्थानं सन्ध्यायां परिवर्तनम्। अन्यत्र पादयोगे तु हादश्यामेव कारयेत्' । विष्णुधर्मोत्तरे। 'विष्णुर्दिवा न स्वपिति न च रात्री प्रबध्यते। हादश्यामृक्षसंयोग पादयोगो न कारणम्। अप्राम हादशीमक्षे उत्थानशयने हरेः। पादयोग न कर्तव्ये नाहो
For Private and Personal Use Only