________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् । एव आदिपुराणे । 'पारणान्त व्रतं ज्ञेयं व्रतान्ते हिजभोजनम् । असमाप्त व्रते पूर्व नैव कुाद व्रतान्तरम्'। इत्थञ्च उपवासव्रते पारमनियमात् जलेन पारणं विधाय तहिने उपवासादिः कार्ययः । ___अथ भैमी। विष्णुधर्मोत्तरे। 'मृगशौर्षे शशधरे माघे मासि प्रजायते । एकादश्यां सिते पक्षे सोपवासी जितेन्द्रियः । हादश्यां तिलाचारं कृत्वा पापात् प्रमुच्यते। तिलनायी तिलोहौ तिल होमी तिलोदको । तिलस्य दाता भोक्ता च षट्तिलौ नावसीदति' । मत्स्यपुराणे । 'यद्यष्टम्यां चतुर्दश्यां हादश्यामथ भारत । अन्येष्वपि दिनर्वेषु न शक्तस्त्वमुपोषितुम् । ततः पुण्यामिमां भीमतिथिं पापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छेहिष्णोः परं पदम्' । भीमतिथीं भैमौत्वेन ख्याता. मेकादशौम् । अथ पार्वतोमहोत्तरैकादश्युपवासः । आश्विनशुक्लपक्षमधिकृत्य । कल्पतरौ ब्रह्मपुराणम् । 'उपवासश्च कर्त्तव्य एकादश्यां प्रजागरः। हादश्यां वासुदेवस्य पूजितव्यश सर्वदा।
अथ शयनादिकालः । भविष्यनारदीययोः। 'मैनाद्यपाद स्वपितोह विष्णोर्वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च मुरारिहन्ता प्रबुध्यते मासचतुष्टयेन'। मैत्रमनुराधा वैष्णव्यं श्रवणा पौष्णं रेवती। भविष्थे। 'निशि स्वापो दिवोस्थान सन्ध्यायां परिवत्त नम्। अन्यत्र पादयोगे तु हादश्यामय कारयेत्' । इत्यञ्च नक्षत्र योग प्राप्तौ फलातिशयः । एतबिधान वामनपुराण । 'एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्यझं कत्वा संपूज्य केशवम्। अनुज्ञां ब्राह्मभ्यश्च हादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरं देवं निद्रा समानयेत्'। अनुज्ञां लब्ध्वा इत्यन्वयः। एकादशी समये
For Private and Personal Use Only