SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' एकादशीतत्त्वम्। शाहादौ कृष्णकादश्यादिगौणकालोऽस्ति तत्र मृताहादावबाद्यभावे तदनुरोधेन उपवासादिरूपं प्रायश्चित्त कला गौणकाले तत् कर्त्तव्यम् । तथाच लघहारोतः । 'एकोद्दिष्टन्तु कर्तव्यं पाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदहः भमुपोषणम्'। तथाच छन्दोगपरिशिष्टम्। 'संस्कारा अतिपत्येरन् स्वकालाञ्चेत् कथञ्चन। हुत्वैतदेव कुर्वीत ये तूपनयनादधः' । यत्र तु विनिगम कवचनाभावस्तत्र यद्यपि क्रियायाः प्राधान्यात् कालो द्रव्यं इयमपि गुणभूतमेव तथाप्युभयोपसंहा. रामामर्थ्य द्रव्यादरः कालस्य सूर्यादिक्रियाघटितस्य कर्बधीनत्वाभावाद्दर्जनौयत्वमिद्धिः असन्निधिकत्वानिमित्तत्वमात्रेण वहिरङ्गत्वात् । कालस्य निमित्तत्वं व्यक्त भविष्थे 'अत: कालं प्रवक्ष्यामि निमित्त कर्मणामिह' । द्रव्यस्य तु यागस्वरूपनिर्वाहकत्वेन अभ्यहितत्वात् कर्मण: कारकत्वेनान्तरङ्गत्वाच्च । पुत्वादिप्रतिनिध्यभावे तु ब्रह्मवैवर्तः। 'उपवासासमर्थश्चे देकं विप्रन्तु भोजयेत् । तावद्धनानि वा दद्याद् यद्भक्तादिगुणं भवेत् । सहस्रसम्मितां देवों जपेदा प्राणसंयमान्। कुयाहादशसंख्याकान् यथाशक्ति व्रते नरः'। देवों गायत्रीम्। अत्र चान्द्रायणादौ परिसंख्या। काश्यपपञ्चरात्रे 'मच्छयने मटु. स्थाने मत्पार्श्वपरिवर्तने। फलमूलजलाहारी हृदि शल्यं ममार्पयेत् । अत्र यो दौक्षितः कश्चि वैष्णवो भक्तितत्परः । निनिमित्तमदीक्षायां न च सुधाधिपौडितः। अन्न वा यदि भुलौत मूलं फलमथापि वा । अपराधमहं तस्य न क्षमामि तु काश्यप। क्षिपामि नरके घोरे हृच्छ ल्य मम जायते' । निमित्त प्रारब्धचान्द्रायणादिव्रतविरोध इत्यादि दीक्षाया चरुशेष प्राशनस्य विहितत्वाददीक्षायामित्युक्तम् । तुदाधिना पीड़ितः सर्वमेतत् प्रदर्शनमात्रं शतौ निर्विरोध इत्यर्थः । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy