________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
वय्र्येऽपि पूर्वदौर्बल्यं प्रकृतिवदिति' । ज्योतिष्टोमेऽन्योन्यं सम्बध्य यज्ञशालातो वहिर्निर्गच्छतामृत्विजां विच्छेदनिमित्त' प्रायचित्तं श्रूयते यद्युहाता विच्छिन्द्याद्दक्षिणेन यजेत यदि प्रतिहोता सर्वस्वदक्षिणेनेति । तत्र उहाप्रतिहोवोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासम्भवात् । किं पूर्वं कार्य्यम् उत वा परमिति संशये हि अनुपजातविरोधात् पूर्वमिति पूर्वपचे गजान्तः । पौर्वापर्य्यं सति निमित्तयोः पूर्वस्यैव निमित्तस्य दौर्बल्यम् । उत्तरस्य पूर्वनिरपेक्षस्य तद्वाधकतया उदितत्वात् पूर्वोदयकाले उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । उक्तं हि पूर्व परमजातत्वादपाधित्वेव जायते । परस्यानन्यथोत्पादादुक्तबाधेन सम्भव:' इति प्रकृतिवदिति तथा हि प्रकृतौ क्लप्तोपचाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाहिण्यां प्राप्ताः कल्परोपकारतया चरमभाविभिरपि शरैर्निरपेक्षैर्बाध्यन्ते तद्वदिति अतएव शारीरकभाष्यटीकायां वाचस्पतिमिश्राः । ज्येष्ठत्वञ्च अनापेक्षितस्य बाध्यत्वे हेतुर्न बाधकत्वे रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् तदनपबाधने तदपबधात्मनस्तस्योत्पत्तेरनुत्पत्तेः तथाच 'पूर्वात्घर बलीयस्त्वं तत्र नाम प्रतौयताम् । अन्योन्यनिरपेक्षाणां यत्न जन्मधियां भवेत्' इति । यदि च पूर्ववचनस्य पूर्वपक्षत्वे वैयर्थं स्यात् अत उभयवचनार्थी विवक्षणीयौ तदा विषयभे देन व्यवस्थापनोयौ । तथाहि यत्राष्टका श्रादादौ कालान्तगभावस्तत्र तत्कालानुरोधाद्विहितद्रव्यालाभेऽपि प्रतिनिहितद्रव्यमादाय मुख्यकाल एव तत्करणं न तु वचनानुपात्तखेच्छाकल्पा गौणकालप्रतीक्षणम् । तथाच छन्दोगपरिशिष्टम् । 'स्थालीपाकं पशुस्थाने कुय्याद यद्यानुकल्पिकम् । श्रपयेत्तं स्रवत्सायास्तरुण्यागोः पयस्य नु' इत्यादि । यत्त्राब्दिक
For Private and Personal Use Only