________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् । सदभावेऽपि गोतम्। मुख्यासबोऽथवा ग्राह्य कार्यकारणसन्तती' अतएव ताभावे पूर्व दधि ततः पयः। तथा 'सर्वत्र गौणकालेषु कर्म चोदितमाचरेत् । प्रायश्चित्तं व्याहृतिभिर्हत्वा कर्म समाचरेत् । मत्स्य सूत। 'तं न लभ्यते यत्र शुष्कक्षौरण होमयेत् । क्षीरस्य च दधि ज्ञेयं मधुनश्च गुड़ो भवेत् । आयुर्वेदेऽपि। 'मधु यत्र न लभ्येत तत्र जीर्णो गुड़ो भवेत्। पैठौनमि: । 'काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां साह. श्येन प्रतिनिधिं कुर्यात्। सर्वाभावे यवप्रतिनिधिर्भवतीति' काण्डं नालं प्ररोहोऽङ्करः। सर्वालाभे यव इति कल्पतरुः अवयव इति नारायणोपाध्यायाः। शान्तिदीपिकायां नारदौयपञ्चरात्रम्। 'अभावे चैव धातूनां हरितालं विधीयते । वोजानामप्यभावे तु यव एक: प्रशस्यते। ओषधीनामभावे तु सहदेवा प्रशस्यते । रत्नानामप्यभावे तु मुक्ताफलमनुत्तमम् । लौहानामप्यभावे तु हेमपात्रं प्रकल्पयेत् । लौहानां तैजसपात्राणाम् । न्याय प्राप्त प्रतिनिधिमधिकृत्य जैमिनि: । 'न देवताग्निशक्रियाणामिति। अस्यार्थः देवताया अग्नेश्च पाहवनौयादेः शब्दस्य मन्त्रस्य क्रियाया प्रयाजाद्यदृष्टार्थ कर्मणश्च अदृष्टमानार्थकत्वेनारात् उपकारकत्वान्न प्रतिनिधिः बौह्यादौनान्तु सनिपत्योपकारकाणां पुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्र प्रतिनिधिरुचित इत्युक्तम् । परिशिष्ट 'मुख्य काले तु मुख्यञ्चेत् साधनं नैव लभ्यते। तत्कालद्रव्ययोः कस्य गौणता मुख्यतापि वा'। तत्र भरहाजः । 'मुख्यकालमुपाश्रित्य गौणमप्यस्तु माधनम्। न मुख्यद्रव्यलाभेन गौणकालप्रतीक्षणम् । गौणेषु तेषु कालेषु कर्म चोदितमारभेत् । प्राय. श्चित्तप्रकरणप्रोतां निष्कृतिमाचरेत्' । उत्तरमतं सिद्धान्तमिति केचित्। तदभिप्रायकं मीमांसाषष्ठाध्यायसूत्रम्। 'पौर्वा
८-क
For Private and Personal Use Only