________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
प्रथमे सदा' सौरनक्तकालस्तु तिथितत्वेऽनुसन्धेयः । मार्कबण्डेयः । 'एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन दानेन नैवाद्वादशिको भवेत्' । अत्र विष्णुपूजाधारणयोरङ्गान्तरापेक्षया प्राधान्यमवगम्यते । श्रनुकल्पिकेऽप्यावश्यकत्वात् ।
८५
अथ पुचादिप्रतिनिधिः । स्कन्द पुराणम । 'पुचञ्च विनयोपेतं भगिनीं भ्रातरन्तथा । एषामभावे एवान्यं ब्राह्मणं विनियोजयेत्' । गरुड़पुराणं 'भार्य्याभर्तृव्रतं कुर्य्याद्भार्य्यायाच पतिस्तथा । श्रमामर्थ्ये दयोस्ताभ्यां व्रतभङ्गो न जायते । वराहपुराणे 'पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् । ग्रहष्टार्थमुपोषित्वा स्वयञ्च फलभाग्भवेत्' । अत्रैव विषये कात्यायनः । दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च सा' । ननु प्रतिनिधौ ममेह शर्म इत्यादि मन्त्र स्थफलं कुत्रान्वे तु इति चेत्प्रधान एव । तथाच शारीरकभाष्य श्रुतिः । 'यां वै काञ्चनयज्ञ आशिषमाशासते यजमानायैव तामाशासते इति होवाच' इति । ब्राह्मण सर्वस्वे यजमानायेत्यत्र यजमानस्येतिपाठ: । सरलायां सूत्रं यां वै काञ्चन-ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति । अत्र ऋत्विमयजमानपदे प्रतिनिधिप्रधानपरं चाकाङ्क्षितत्वात् । अतएव प्रतिनिधिपुचादिना आयान्तु नः पितर इत्यादिरनूह एव पव्यते वाक्यस्य काल्पनिकत्वान तथेति । कालमाधवोये । 'काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः । काम्येषूपक्रमादूई मन्ये प्रतिनिधिं विदुः । यथानित्यं नैमित्तिकञ्च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्ये तु स्वसामर्थ्यं परोक्ष्य स्वयमेवोपक्रम्य कुर्य्यात् । श्रसामध्ये उपक्रमादूई प्रतिनिधिनापि कारयेत् । एतच्च श्रौतकास्यपरं स्मार्त्तकाम्यन्तु अन्य द्वारा म्युपक्रम्य कार्य्यम् । तथाच पराशरभाय शातातपः 'श्रौतं कर्म स्वयं
For Private and Personal Use Only