________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
શ્
'
शुभं वह लुलापक" इत्याद्युक्त फलं यजमान एव अन्वेति "यां वै काञ्चन यज्ञऋत्विज आशिषमाशासते यजमानस्यैव तामाशासते इति होवाच" इति श्रुतेः । " ऋत्विग्वादे नियुशश्च समौ संपरिकीर्त्तितौ । यज्ञ खाम्याप्नुयात् पुण्यं हानिं वादेऽथवा जयम्” इति वृहस्पतिवचनाच्च एवञ्च "आयान्तु नः पितरः" इति वदत्राप्यन्हः एवं वाक्य तु काल्पनिके यजमाननामोल्लेख इति भविष्ये " अजानां महिषाणाञ्च मेषाणांच तथावधात् । प्रीणयेद्विधिवद्दूग मांसशोणित तर्पणैः ॥ दुर्गाया दर्शनं पुण्य दर्शनादभिवन्दनम् ॥ वन्दनात् स्पर्शनं श्रेष्ठ स्पर्शनादभिपूजनम् । पूजनात् स्वपनं श्रेष्ठ खपनात्तपंगां मतं तर्पणान्मां सदानन्तु महिषाजनिपातनम् ॥ महिषोऽजो वा निपात्यते यस्मिन वलौ चर्मणि होपिनं हन्ति इति वत् तथा मांसम् श्रमं शौषं तदितरत् पक्कम् उक्तः वचनात् । तथा " स्वमेकमेकं वरदा तृप्ता भवति चण्डिका । रुधिरेणोरणस्येह तर्पिता विधिवत्रप । अजस्य दशवर्षाणि रुधिरेण सुतर्पिता । महिषेण शतं वौर तृप्ता भवति चण्डिका ॥ सहस्रं तृप्तिमाप्नोति खदेहरुधिरेण च । तर्पिता विधिवद्द ग भित्त्वा बाहरु जङ्घकम् ॥ नारेण शिरमा वौर पूजिता विधिवनृप । तृप्ता भवेद्भशं दुर्गा वर्षाणां लक्षमेव तु ॥ स्वमेकं संवत्सरं " स्वमेको वत्सरो ग्रव्यो मासः” इति श्रुतेः उरणस्य मेषस्य तथा " प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकल्पितः । कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजो विवईन ॥ चतुर्वेदमय प्राज्ञ प्रज्ञां देहि यशो मह: । तथा "वैष्णवोतन्त्र कल्पोक्तक्रमः सर्वत्र सर्वदा । साधकैर्वलिदाने तु ग्राह्यः सर्वसुरस्य तु ॥ एवञ्च चामुण्डेत्यत्र षष्ठिकेत्यूह्यः ततश्च अभिमतस्तत् तत् फलकामो दुर्गाप्रीतिकामो वा पशुघातं कुय्यात् ततोऽमुकस्य दशवर्षाव - च्छित्र देवी प्रीतिकामनया एष रुधिर बलिर्नम इत्यत्सजेत् । ततः शिरसि ज्वलद्दशां दत्त्वाऽमुकस्य श्रीदुर्गाया दर्शनाभिवन्दन स्पर्शनाभिपूजनस्वपनतर्पणजनित पूर्व पूर्व पुण्याधिक पुण्यप्राप्तिकामनया एष स प्रदौपछागशौर्षवलिर्नम इति उत्सृजेत । " बलिदानप्रदानार्थं नमस्कारो यतः कृतः” इति
"
For Private And Personal Use Only