________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
गौकृत्य महार्णवष्टतेन देवीपुराणेन पशुघातवलिदानयोः पृथक् फलमभिहितम् । यथा “देवीं ध्यात्वा पूजयित्वा
रात्रेऽष्टमीषु च । घातयन्ति पशून् भक्त्या ते भवन्ति महाबलाः ॥ वलिं ये च प्रयच्छन्ति सर्वभूतविनाशनम् । तेषान्तु तुष्यते देवौ यावत् कल्पन्तु शाङ्करम्” । सर्वभूतानि विषादीनि विनाश्यन्ते यस्मिन् वलौ चर्मणि दौपिनं हन्तौतिवत् । छागादौ पशुपदप्रयोगमाह यज्ञपार्श्वः । "उष्ट्रो वा यदि वा मेषम्छागो वा यदि वा हयः । पशुस्थाने. नियुक्तानां पशुशब्दों विधीयते” ॥ कालिकापुराणे “ शोणितं मन्त्रपूतञ्च शौर्षं पौयूषमुच्यते । तस्माच्च पूजने दद्याद्दले: शीर्षच्च शोणितम् ॥ सफलैस्तोयसंयुक्तः शर्करामधुसंयुतैः । अभ्युच्य रुधिरं दद्यात् कामवोजेन भैरव ॥ ततो बलौनां रुधिरं तोयसैन्धवसत्फलैः । मधुभिः पुष्पगन्धैश्व अधिवास् प्रयत्नतः " ॥ इत्यादि वचनात् मधुसैन्धवयुतं कृत्वा दद्यात् । तथा “ पूजासु नाम मांसानि दद्याई साधकः क्वचित् । ऋते तु लोहितं शौर्षममृतं तत्तु जायते” ॥ अत्र बहुपशुधातेऽपि मन्त्र एकवचनान्त एव प्रयोज्यो न बहुवचनोह्यः नरं पञ्चत्वमागतमित्यत्र नाखां लिङ्गोहाभाववत् । अतएव बहुपत्नौकयजमानप्रयोगेऽपि पत्नों सनोति मन्त्र एकवचनान्त एवेत्युक्तमिति श्रीदत्तोपाध्यायेन दृष्टान्तीकृतम् ।
. . हं प्रकृत्य "नमकता पूर्वत्वात्” इति कात्यायनसूत्रेणोप्रतिषेधात् विकृतावेषोहो “अपूर्वोत्प्रेक्षणम् ऊह” इति लक्षणात् । न वा मन्त्रस्य वाधः वैभक्तिकार्थापेक्षया प्राथमिकत्वेन वलवतः प्रातिपदिकार्थस्य समवेतार्थत्वेन विनियोज्यत्वात् । अत्र पशुघातपूर्वक रक्तशीर्षयोर्वलित्वम् । पशुवातपूर्वक रुधिरशौर्षदानानन्तरं " एवं दत्त्वा वलिं पूर्ण फलं प्राप्नोति साधकः” इत्युक्तेः "नानापाशुकमज्जमांसरुधिरैः कृत्वा नवम्यां वलिम्” इति राजमार्त्तण्डाच्च । एवञ्च प्रकृतौ नररूपबहुपौ बहुवचनोहाभावात् छागादो विकतोभूतेऽपि न बहुवचनोहः किन्तु एकवचनमात्रम् एवं प्रति निधिपुत्रादिना क्रियमाणे कर्मणि । तथा मम रिपून् हिंस
For Private And Personal Use Only