________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८८५ युक्तः शुचिर्दान्तो दान दद्यात् सदक्षिणम्। प्रदक्षिणन्तु यहानं तवं निष्फलं भवेत् । दक्षिणाभिरुपतं हि कर्मसिध्यति मानवे। सुवर्णमेव सर्वासु दक्षिणास विधीयते । सुवर्ण काञ्चनमात्र नपुंसकनिर्देशात् ।
अध पाणिग्रहणम्। तत्र गोभिलः । "पाणिग्रहणे पुरस्ताच्छालाया उपलितेऽग्निरूपसमाहितो भवति । पाणिग्रहणे कर्तव्ये ग्यासमोपदेश उपसमाहितः स्थण्डिले रेखादि विरूपाक्षजपान्तं कर्म कला प्रकृतकर्मार्थ योजनामावाह. नेन समाहितोऽग्निपति। गोभिलः। "पथ जन्यानामको ध्रुवाचामपां कलसं पूरयित्वा सहोदकुम्भः प्राहतो वाग्यतो. ऽग्रेणाग्निं परिक्रम्य दक्षिणत उदा खोऽवतिष्ठते । अग्निस्थापनानन्तरं वरस्य सहायानां मध्ये एकोऽगाधजलेन घटं पुरयित्वा यतकुम्भो वस्त्राच्छादितदेहः प्रदक्षिणेनाग्निं वेष्टयित्वाऽग्निब्रह्मणादक्षिणस्यान्दिशि उदङ्मुखोऽवतिष्ठते । अवपूर्वस्तिष्ठतिरनुपविष्टतां बोधयति गोभिलः। “प्राजनेनान्यः” इति। प्रतोदेन सह कुम्भधाग्विदागत्य कुम्भधारिणः प्रागन्योऽवतिष्ठते। गोभिल: "शमोपलाशमिश्रान् लाजांचतुरनलिमात्रान् सूर्पणोपसादयन्ति पश्चादग्नेः" इति। शमी.. वृक्षपमिश्रितान् चतुरनलिपरिमितान् लाजान् अम्न: पश्चात् सूर्पस्थान् स्थापयन्ति बहुवचनात् कर्तुरनियमः । “पक्षतास्तु यवाः प्रोक्ता धाना भृष्टा भवन्ति ते। भृष्टास्तु बोहयो लाजा घटौखण्डिक उच्यते”। गोभिलः। तथा दृशत् पुवञ्च। दृशत् शिला पेषणाधाररूपा पुत्रः पेषणकरणरूपप्रस्तरस्तदुभयं पूर्ववदुपसादयन्तीत्यर्थः ।
अथ यस्याः पाणिं ग्रहीष्यन् भवति सशिरस्का माता भवति । यस्याः कन्याया जामाता पाणिं ग्रहौष्थन् भवति
For Private And Personal Use Only