________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८९३ साधनं तथात्वे दातुरेव विवाह कर्तृत्वापत्तेः। अत्र प्रत्ययार्थग्रहणनिमित्तौभूत-प्रत्यर्थत्यागेन सहककत्तकत्वमाह्वानस्य स्थितादिपदाध्याहारण वा व्यक्तम् । हरिवंशीयविशङ्गपाख्याने। "पाणिग्रहणमन्त्राणां विघ्नचक्रे सदुर्मतिः । येन भार्या हता पूर्वे कतोहाहा परस्य वै ॥ तोहाहा भार्या पाणिग्रहात् पूर्व कलेत्यर्थः । एवं "पाणिग्रहिका मन्त्रा नियतं दारलक्षणम्। सेषां निष्ठा तु विज्ञेया विहद्भिः सप्तमे पदे ॥ इति मनुवचनं विवागतसंस्कारविशेषार्थम् अतएव निछेत्यताम् । तथा च रवाकरः । “पाणिग्रहणिका मन्त्रा विवाहकमाङ्गभूताः" इति मनुः । “जातिभ्यो ट्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याप्रदान स्वाच्छन्यादासुरो धर्म उच्चते" इति। कन्याप्रदानं कन्यायाः स्वीकरण मिति कुल्लू कभट्टः। खाच्छन्द्यात् स्वेच्छया। दानाधिकारमाह याज्ञवल्क्यः। “पिता पितामहो माता सकुल्यो जननी तथा। कन्याप्रदः पूर्वनाशे प्रक्कतिस्थः परः परः। अप्रयच्छन् समाप्नोति णहत्या मृताहतो। कामन्वभावे दातृणां कन्या कुर्यात् स्वयंवर' तथेत्यनेन नारदोता. मातामहाद्याः सूचिताः। तथा च नारदः । "पिता दद्यात् वयं कन्या भ्राता वानुमतः पितुः । मातामहो मातुलश्च सकुल्यो बान्धवस्तथा। मातात्वभावे सर्वेषां प्रकृती यदि वर्तते । तस्यामप्रकृतिस्थायां कन्यां दद्युः सनाभयः” । बान्धवः पितामहः याज्ञवल्क्य कवाक्यत्वात्। प्रन सकुल्यमातामहयोरिदोत क्रमोन ग्राह्यः पाठक्रमाच्छाब्दक्रमस्य बलवत्वात्। तस्यामित्यनेन मातुरूपस्थितत्वात्। सनामय इत्यनेन मातामहमातुलेतरसकुल्य उच्चते। प्रकृतिस्थः पातित्यादिदोषरहितः। देयद्रव्यस्य प्रेक्षणस्पर्शन आह हारोतः । "तस्मादगिरवोच्च दद्यादालभ्य चेति"। कालिकापुराणम् ।
For Private And Personal Use Only