________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६०
संस्कारतत्त्वम् ।
त्वप्राप्तौ विवाहे पुण्ये नक्षत्रे इति पुनर्विधानमितरापेचया नक्षत्रस्य प्राधान्य द्योतनार्थम् । अत्र च विवाहात् पूर्व जातिकर्त्तृकस मन्त्रक कन्याभिषेकरूपस्य ज्ञातिको भट्ट भाष्येण काम्यत्वाभिधानेन इदानों तथा नाचरणत् तत्प्रमाणं न लिखितम् । कल्पतरुरत्नाकरयोगृह्य परिशिष्टम् । “कन्यां वरयमाणानामेष धर्मों विधीयते । प्रत्यखा बरयन्ति प्रति गृह्णन्ति प्राङ्म ुखाः” ॥ वरयन्ति गोत्रप्रवराभिधानपूर्वकं ददति प्रतिग्टहृन्तोति श्रवणात् । श्रतएव " सर्वत्र प्राखो दाता गृहोता च उदम ुखः । एष एव विधिर्दाने विवाहे च व्यतिक्रमः " ॥ इति प्रत्यक्ष खः सम्प्रदाता प्रतिग्रहौता प्राङ्म ुखः । तथा च "प्राङ्म ुखायाभिरूपाय वराय शुचिसन्निधौ । दद्यात् प्रत्यङ्म ुखः कन्यां क्षणे लक्षणसंयुते ॥ इति वचनाच्च । भवदेवtय सम्बन्धविबे के प्रवराभिधानमाह भविष्यपुराणम् । " तुला पुरुषदाने च तथैव हाटकाचले । कन्यादाने तथोत्सर्गे कीर्त्तयेत् प्रवरादिकम् ॥ हरिशर्मधृतम् आश्वलायनगृहापरिशिष्टम् । “शिवदत्तप्रपौत्री ब्रह्मदत्तपौत्री बिष्णदत्तपुत्रो यज्ञदत्ता कन्या शिवमित्रप्रपौवाय राममित्रपौत्राय विष्णुमित्रपुत्राय रुद्रमित्राय तुभ्यं सम्प्रदत्तेति" । सम्प्रदत्ता इत्यव दृष्टार्थत्वात् पुंवचसां तप्रत्ययार्था विवचितत्वेन सम्प्रददे इत्येवप्रयोगः । तथा च व्यासः । “ नामगोत्रे समुच्चार्य प्रदद्यात् श्रयान्वितः । परितुष्टेन भावेन तुभ्यं सम्प्रददे इति” स्वगामिफले तुभ्यं सम्प्रददे इति परगामिफले तु श्रहमस्मै ददानीति एवमाभाष्य दौयते इति छन्दोगपरिशिष्टदर्शनात् ददानीति वाच्यम् उभयपदिदाधातोः फलवत् कर्त्तर्य्यात्मनेपदम् अफलवत् कर्त्तरि परस्मैपदमिति पाणिनिश्रुतेः । अतएव श्रात्मनेपदपरस्मैपदयोरात्मनेपरी इति समाख्या
For Private And Personal Use Only
9