________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पक
८५२
मलमासतत्त्वम् । ताते पतिते सङ्गवजिते। व्यत्क्रमाञ्च मृते देयं येभ्य एव ददात्यसौ। इति परिगणितनिमित्तव्यतिरेकेण प्रकरणात् कृडियाहस्य का गतिरिति वाच्यम्। “न तत् पूर्व यतः प्रोक्तः सपिण्डनविधिः क्वचित्। वृदिशाइस्य लोप: स्यादुभयोरपि पक्षयोः । इति वल्लोप एव न चाङ्गवाधात् संस्काराणां वैगुण्यमिति वाच्च तत्तदेवाजवोधकविधौनां तदितरपरत्वादिति । अन्यथा गर्भाधानादि निमित्तत्वेनाप्यपकर्षे महाविप्लवापत्तेः । इत्याहुस्तश्चिन्त्यम्। “सपिण्डौकरणादूई प्रत: पार्वणभुग्भवेत्। वृहौष्टापूर्तयोग्यस्तु गृहस्थश्च ततो भवेत् । इति मस्यपुराण वचनान्महागुरौ प्रेतीभूते वृद्धिकर्म न युज्यते इति वचनाच महागुरुप्रतीभावमा वृद्धिकर्मानधिकारात् निरवकाशवृद्धार्थ मेवापकर्षो युक्तः । न च नैमित्तिकानोत्यादि दक्षवचनात् प्रतिप्रसव इति वाच्यम्। तस्य कालाशः प्रतिप्रसवरूपत्वात्। न च महागुरुप्रतीभावस्य कालाशुद्धित्वम् । "प्रमौतौ पितरौ यस्य देहन्तस्याशुचिर्भवेत्। नापि दैवं नवा. पैना यावत् पूर्णो न वत्सरः”। इति तल्लिखितदेवीपुराणवचनेन देहाशुद्धाभिधानात्। अतएव बलिवैखदेवाग्न्याधानारम्भे प्रतिप्रसवमाह छन्दोगपरिशिष्टम् । वलिकर्म प्रक्रम्य "एतद्ग्रहपतो प्रेते कुर्य्यादेकादशेऽहनि। प्रागैवैकादशात् श्राद्धात् सद्योजागरणादिकम्"। एतहलिकर्म तयुगनहवाहित्वात् वैश्वदेवस्यापि ग्रहणम्। एकादशाहात् एकाद. शाहक्रियमाणात्। जागरणादिकम् पग्न्याधानाङ्गम्। वस्तुसस्तु कालाशौचन्तु तदेव यत् सर्वान् पुरुषान् प्रति समानम् । यथा मलमासादि अन्यथा दशाहाशौचस्यापि कालाशौचत्वे तत्रापि नैमित्तिकानौतिवचनात् पुंसवनादि स्यात्। यदप्यभिहितं न तत् पूर्वमित्यनेन केवल वैश्वदेवाग्न्याधानसहित
For Private And Personal Use Only