________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
कुर्य्यादिन्दु संचये । इति पठित्वा व्यासवचनविरोधात् न कुय्योपतिष्ठते इति काश्मीरपाठो न्यायानिति हेमाद्रिणाभिचितं यत् तद्देयम् । समयप्रकाशक्कतापि । पमावास्यामृतस्य तु मध्ये मलमासपातेऽपि तत्र न मासिकम् इत्यभिधाय पूर्वोक्त कुथमिवचनं साधकत्वेनाभिहितं यत्तदपि हेयम् । तद्दचने अमावास्यामृतस्येति विशेषतोऽभिधानात् । न च "अब्दमम्बुघटं दद्यात् श्रवश्चामिषसंयुतम् । संवत्सरे विहछेऽपि प्रतिमासञ्च मासिकम्” । इति कुथुमिवचनान्तराभितिप्रेतमासिक डिनिषेधार्थं तद्दचनमिति वाच्यम् । तत्परत्वे प्रमाणाभावात् । किन्तु मलमासे प्रेतमासिकवृद्धिः पितृमासिकन्तु नास्तीति वचनयोरर्थः । पूर्वलिखितहारीतवचनार्थसमः । यत्तु तस्मि ंस्त्रयोदशं श्राहमिति पठितम् अमावास्वायां मृताहे मलमासे मासिकं न कुर्य्यादन्यत्र तु मलमासे प्रेतमासिकादिरिति । न चामावास्यायां पार्वणनिषेध इति वाच्यं पुरुषभेदेन तस्यानियत संख्यात्वात्ततोदशत्वानुपपत्तेः । पर्व चाग्रयणन्तथेति श्रमावास्यानिमित्तकस्य प्रतिप्रसवाञ्च । इति जीमूतवाहन व्याख्यातं तदपि चिन्त्यम् । श्रमावास्थामृतस्येतिविशेषाभावेन तदर्थकल्पने प्रमाणाभावात् । श्रमावास्या पार्वणस्य पुरुषभेदेनानियतसंख्यात्तात्रयोदशत्वानुपपत्यभिधानञ्च न सङ्गच्छते । यतो भवन्मतेऽपि एकद्दिवत्रादि मासिकानन्तरमासिकस्य त्रयोदशत्वानुपपत्तेः । अथ तत्र वत्सरापेचया पणपूरणन्यायेन वयोदशत्वमिति चेत "अनेन विधिना वा कुर्य्यात् संवत्सरः सकृत् । विश्वतुर्वा यथाशक्ति मासे मासे दिने दिने । इति देवलवचनेन संवारे प्रतिमासं श्राविधानात् तदपेचया अमावास्या श्राहस्यापि तन्त्रायात्रयोदशत्वमिति । इन्दुसंचय इत्यभिधानादपि तत्रिमित्तक
For Private And Personal Use Only