________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८४७ चैव। एकतिथ्य करणे प्रतितिथिकर्तव्यकल्पसमापनाभावात् अत्र कल्पान्तरोतो युक्तः। सन्ध्यावन्दने तु कल्पान्तराभावान तथेति। प्रत्यञ्चारब्धकल्पेऽप्यशक्ता अन्येन कार्यः। तथा च याचवल्काः। “जिलं त्यजेयुनिलाभमशतोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विकृर्षिककर्मिणाम्" ॥ विद्याधरधृतम्। "तीर्थे तिथिविशेषे च गङ्गाथां प्रेतपक्षके। निषिद्धे दिने कुयातर्पणं तिलमिश्रितम् ॥ तिथिविशेषे अमावास्यायाम् । स्मृतिः "रविशकदिने चैव हादश्यां श्राववासरे। सप्तम्यां जन्मदिवसे न कुयात्तिलतर्पणम्” ॥ मत्स्यपुराणे । “सप्तम्यां निशि संक्रान्त्यां रविशुक्रदिने तथा। श्राद्ध जन्मदिने चैव न कुयात्तिलतपंणम् ॥ श्राने अमावास्याश्रावभिन्ने। “नौलषण्ड विमोक्षण अमावास्यां तिलोदकैः । वर्षासु दीपदानेन पितॄणामनृणो भवेत् ॥ इति मात्स्यात् । प्रतिप्रसवमाह स्मृतिः । “अयने विषुवे चैव मंक्रान्त्यां ग्रहणेषु च । उपाकर्मणि चोत्सर्गे युगादौ मृतवासरे ॥ रविसंक्रान्तिवारोऽपि न दोषस्तिलतर्पणे" ॥ स्कन्दपुराणे। “तीर्थमात्र तु कर्त्तव्यं तर्पणं सतिलोदकैः । अन्यथा तर्पयेद्यस्तु विष्ठायां स कमिर्भवेत् ॥ विशेषतस्तु जागव्यां सर्वदा तर्पयेत् पितृन् । स्मृतिः। निषिद्धदिनमासाद्य यः कुर्यात्तिलतर्पणम् । रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥ एतच्च तीर्थव्यतिरिक्तजले “यो नित्यं तर्पयेत्तीर्थे पितॄन् कृष्ण तिलोदकैः। सबन्धान् मोचयित्वा तु स्वयं ब्रह्मपुरं व्रजेत् ॥ इति कात्यायनवचनात्। उक्तस्कन्दपुराणोयवचनाच। संवत्सरप्रदौपे। “प्रमावास्यास्तु कन्या: तीर्थप्राप्तौ तथा नृप। कृत्वा श्राई विधानेन दद्यात् षोड़शपिण्ड कम्” ॥ इति वायुपुराणौयस्तत्प्रयोगस्तिथितत्त्वे - ऽनुसन्धेयः। भृगुः । "वृद्धिश्राद्ध तथा सोममग्न्याधेयं महालयं
For Private And Personal Use Only