________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
৩২
तिथितत्त्वम् ।
ततश्च मार्कण्डेय पुराणौयदेवीमाहात्मा पाठस्यादौ ऋषिछन्दादिकं पठेत् तद्यथा प्रथमचरितस्य " ब्रह्मऋषिर्महाकालो देवता गायत्रौ छन्दो नन्दाशक्तो रक्तदन्तिकावोजमग्नितत्त्व' महाकालौपौत्यर्थं जपे विनियोगः” । मध्यमचरितस्य । "विष्णु ऋषिर्महालक्ष्मौर्देवता अनुष्टुप छन्दः शाकम्भरीशक्तिदुर्गावीजं सूर्यस्तत्त्व' महालक्ष्मौप्रौत्यर्थं जपे विनियोगः” । उत्तरचरितस्य " रुद्रऋषिः सरखतौदेवता उष्णिक छन्दोभौमाशक्तिभ्रमरोवोजं वायुस्तत्त्व' सरखतोप्रौत्यर्थं जपे विनियोगः " नैयतकालिक कल्पतरौ भविष्यपुराणम् " इतिहासपुराणानि
भक्त्या विशांपते । मुच्यते सर्वपापेभ्यो ब्रह्महत्यादिभि विभो ॥ ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात्। श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत्” ॥ तथा “देवाचमग्रतः कृत्वा ब्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्याद्दाचक: कुरुनन्दन ॥ पुनर्वनीत तत्सूत्रं न मुक्ता धारयेत् क्वचित् । हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः ॥ दत्त्वा तु वाच - कायेह तस्याप्नोति तत्फलम” । कांस्योपदोहना: कांस्य क्रोड़ा: " वाचकः पूजितो येन प्रसन्नास्तस्य देवताः” । तथा "ज्ञात्वा पर्वसमाप्तिञ्च पूजयेत् वाचकं बुधः । श्रात्मानमपि विक्रय य इच्छेत् सफलं कृतम्” । तथा "विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्त रसभावसमन्वितम् ॥ वुध्यमानः सदा शुद्धो ग्रन्थार्थं कृत्स्रशो नृप । ब्राह्मणादिषु सर्वेषु ग्रन्थार्थं चार्पयेनृप ॥ य एवं वाचयेदब्रह्मन् स विप्रो व्यास उच्यते” । तथा "सप्तखरसमायुक्त कालेकाले विशांपते । प्रदर्शयनुसान् सर्वान् वाचयेद्वाचको नृप” ॥ देवौपुराणे "दूषे मास्यसिते पक्षे कन्याराशिगते रवौ । नवम्यां बोधयेद्द वीं क्रौड़ाकोतुकमङ्गलैः ॥ ज्येष्ठानक्षत्रयुक्तायां षष्ठयां विल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् । पूर्वाषाढ़ायुताष्टम्यां पूजा होमाद्युपोषणम् ॥ उत्तरेण नवम्यान्तु वलिभिः पूजयेच्छिवाम् । श्रवणेन दशग्यान्तु प्रणिपत्य विसर्जयेत्” ॥ अत्र नवम्यादिकल्प उक्तः । तथा " यावडूर्वायुबाकाशं जलं वह्नि शशिग्रहाः । तावच्च चण्डिका पूजा भवि
For Private And Personal Use Only