________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४०
मलमासतत्त्वम् । महामुने । तन्तमच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादयेत् ॥ विष्णुधर्मोत्तरटतोयकाण्डे तु विष्णु सम्प्रदान कमेव दानम्। “विष्णोः शङ्खप्रदानेन वारुणं लोकमानयात्" ॥ इत्यादिना “क्षौरपल्लवसंयुतान् कलसान् सुविभूषितान्। दत्त्वा वै देवदेवाय वाजिमेधफलं भवेत्” ॥ इत्यन्तेन तत्तत्फलं तत्तहानमभिधायोक्तम्। “अकामः सात्त्विको लोको यत्किञ्चिहिनिवे. दयेत् । तेनेव स्थानमाप्नोति यत्र गत्वा न शोचते ॥ धर्मवाणिजिका मूढाः फलकामा नराधमाः । अर्चयन्ति नगन्नाथं ते कामानाप्नवन्त्यथ । अन्तवन्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥ पझ्या प्रतीच्छते देवः सकामेन निवेदितम्। मूर्छा प्रतीच्छते दत्तमकामेन हिजोत्तमैः” ॥ इति वामनपुगणवचने साद. कालि कमित्य ने न मलमासादावपि विष्णुप्रौत्यर्थं देयम्।
अथ महादानलक्षणम् । मस्यपुराणे। "प्रथातः संप्रवक्ष्यामि महादानस्य लक्षणम्"। इत्यभिधाय । “पाद्यन्तु सर्वदानानां तुलापुरुषसंज्ञितम्। हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् । कल्पपादपदानञ्च गोसहमञ्च पञ्चमम् । हिरण्यकामधेनुश्च हिरण्याश्व स्तथैव च। पञ्चलाङ्गल कश्चैव धरादानं तथैव च। हिरण्याश्वरथस्तहत् हेम हस्तिरथस्तथा। हादशं विष्णु चक्रञ्च ततः कल्पलतात्मकम्। सप्तसागरदानञ्च रत्नधेनुस्तथैव च। महाभूतघटस्तहत् षोड़शः परिकीर्तितः” । अत्र सामान्य लक्षणं सूत्रजपाङ्गकदानं महादानम् । विनायकादिपञ्चाशद्दे वताहीमाङ्गक वा। तथा च मत्स्यपुराणम् । विनायकादिग्रहलोकपालवस्खष्टकादित्यमरहणानाम्। ब्रह्मायुतेशानवनस्पतीनां स्वमन्चतो होमचतुष्टयं स्यात्। जप्यानि सूतानि तथैव चैषामनुक्रमेणापि यथा स्वरूपम्" इत्यादिना सूत जपहोमानयोश्च विधिः प्रत्येकं षोड़शतुलापुरुषप्रधाना
For Private And Personal Use Only