________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
८३८
1
ariant: कर्मफलपरतां वदन्ति तत्राह एवमिति व्यवस्थितम् । वेदस्याभिप्रायमविज्ञाय कुसुमिताम् अवान्तरफल - शेचनतया रमणौयां परमफलश्रुतिं वदन्ति कुतस्त कुबुद्धयः । तदाड हि यस्मात् वेदज्ञा व्यासादथः तथा न वदन्तीति अतएव निष्कामकर्मणात्मज्ञानमित्युक्तम् । यथा " अयमेव क्रियायोगो ज्ञानयोगस्य साधकः । कर्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते” ॥ सोऽपि दुरितक्षयद्वारा न साचात् । तथा च "ज्ञानमुत्पद्यते पुंसां दयात् पापस्य कर्मणः । श्रुतिस्तमेव वेदार्थवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण तपसा दानेन श्रद्धया यतेनानशनेन चेति" तमात्मसाक्षात्कारम् । अतएव यज्ञादीनां ज्ञानशेषताञ्चावधार्य्यं निष्कामेषु कर्मसु प्रवर्त्तते । पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यः । इत्याह षष्ठस्कन्धे । “स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि । न राति रोगिणेऽपथ्यं वाव्क्तेऽपि भिषक्तम: ॥ राति ददाति । समय प्रदीपे श्रीदत्तः । "दास दासमलङ्कारमचं घड्ससंस्कृतम्। पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् । यदयदिष्टतमं लोके यञ्चाप्यस्ति गृहे शुचि । तत्तष्ठ देयं तुष्यर्थं देवदेवस्य चक्रिणः ॥ इदं दानं ब्राह्मण सम्प्रदानकमेव विष्णुप्रीतिमुद्दिश्य एवं सर्वत्र दाने विष्णुप्रीतेः सामान्यतः श्रवणात् । विष्णुप्रोतो देवताधिकरणम्यायविरोध इति सेव स्वर्गवदधिकारिविशेषणत्वेन तव प्रसाधनादित्याह । ब्राह्मणसम्प्रदानकत्वे किं प्रमाणमिति चेत् बामनपुराणे तप्तम्मासभेदेन तत्तद्दानमभिधाय "विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ । देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये” ॥ इति चाभिधाय दासी दासमिति वचनद्दयाभिधानात् । विष्णुधर्मोत्तरेऽग्निपुराणे च । "यत्र यत्न भवेत् प्रौतिर्विषयेभ्यो
"
तथा
For Private And Personal Use Only