________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८३७
मलमासतत्त्वम् । समानगतिताम् । ऋषेर्गत्यर्थात् पञ्चभूतान्यत्येति अतिक्रामति मोक्षं प्राप्नोतीत्यर्थः । विष्णुपुराणम् । “विशिष्टफलदा काम्या निष्क्रामाणां विमुक्तिदा" । भगवद्गोतापि । “युक्तः कर्मफलं त्यक्का शान्तिमाप्नोति नैष्ठिकोम् । अयुक्तः कामकारण फले सक्तो निबध्यते” । युक्त ईश्वराय कर्माणि न फलाय इत्येवं समाहितः । फलं त्यक्का कर्माणि कुर्वन्निति शेषः । शान्ति मोक्षाख्यां नैष्ठिकीं निष्ठायां भवाम्। सत्वशविज्ञानप्राप्ति सर्व कर्मसन्यासन्ज्ञाननिष्ठाक्रमेणेति वाक्यमिति शेषः । अयुक्तस्तद्दहिर्मुखः कामकारेण कामप्रेरिततया कामत: प्रवृत्तेरिति यावत् । फले सक्तः मम फलाय इदं कर्म करोमौत्येवं फले सक्तो नियत' बन्ध' प्राप्नोति तथा चार्जुनं प्रति भगवद्दाक्यम् । “मयि सर्वाणि कर्माणि संन्यस्याध्यात्म चेतसा । निरासौर्निर्ममो भूत्वा युध्यस्व विगतज्वरः " । सन्यस्य निचिप्य समर्प्य इति यावत् । अध्यात्म चेतसा विवेकबुद्या अहंकर्त्ता ईश्वराय भृत्यवत् करोमौत्मनया बुझा निरासौस्त्यक्तकामसङ्कल्पः । अतएव निर्ममो ममतारहितः । विगतज्वरः विगतसन्तापः । व्यक्तमाह स एव । " यत् करोषि यदश्नासि यत् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्" । विष्णुपुराणे । “कर्माण्य सङ्कल्पित तत् फलानि सन्यस्य विष्णौ परमात्मरूपे । अवाप्य तां कर्ममहौमनन्ते तस्मिल्लयं ते त्वमलाः प्रयान्ति । तां कर्ममहीं भारतवर्षरूपाम् । एकादशस्कन्धे । "वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितु मौखरे । नैष्कर्म्या लभते सिद्धिं रोचनार्था फलश्रुतिः " । वेदोक्तमेव कुर्वाणो न तु निषिदम् । ननु कर्मणि क्रियमाणे तमिवासत्तिस्तत् फलञ्च स्यात् न तु नैष्कम्यरूपा फलसिद्धिः । अपवाह निःसङ्ग इति अनभिनिवेशितवान् ईश्वरेऽर्पितु
For Private And Personal Use Only