________________
Shri Mahavir Jain Aradhana Kendra
८३६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
'विजितेन्द्रियाणाम् । एवं विधानामिदमायुरव चिन्त्यं सदा वृडमुनिप्रवाद: । व्यक्तमाह याज्ञवल्काः । " वत्यधार से हयोगाद यथा दौपस्य संस्थितिः । विक्रियापि च दृष्टैवमकाले प्राणसंशयः । यथात्वविकलवर्त्यादि सत्त्व प्रचण्डवातादिना दोपनाशस्तथा सत्यप्यायुषि प्रशुभकर्मवशात्रोका दुर्गवर्त्मयुडापथ्याशित्वादिना प्राणनाश इति । श्रायुर्वेदे । "यथा शास्त्रञ्च निर्णीतो यथा व्याधि चिकित्सितः । न शमं याति यो व्याधिः समयः कर्मजो बुधैः” । तत् चिकित्सायां भोषटाचार्य: “ दानैर्दयादिभिरपि हिजदेवता गोगुर्वचनप्रणतिभिव जपैस्तपोभिः । इत्युक्त पुण्यनिचयैरुपचीयमानाः प्रापापजा यदि रुजः प्रशमं प्रयान्ति” । अतएव हेमाद्रिकतदान खण्डे तत्त द्रोगे तत्तद्दानाभिधानपूर्वक भगवद्दाक्यम् । "सुवर्णदानं सर्वेषां रोगाणां नाशकारणम् । तस्मात् सर्वप्रयत्नेन कर्त्तव्यं कमलोद्भव ” । कर्मदोषोभयजन्य व्याधौ च । “दानादिभिः कर्मभिरोषधौभिः कर्मचये दोषपरिचये च । सिध्यन्ति ये नवतां कथञ्चित् ते कर्मदोषप्रभवा गदास्तु” । अतएवोक्तम् । " प्रायश्चित्तमकृत्वा तु कर्म कुर्य्यान्न किञ्चन । अनिस्तीर्णमघ यस्मात् द्विगुणं परिपच्यते” । केवलदोषजे तु । “स्वहेतु दुष्टैरनिलादिदोषैरुपप्लुतैः खेषु परिस्वलद्भिः । भवन्ति ये प्राणभृतां विकारास्त दोषजा भेषजशुद्धिसाध्याः” ।
अथ मुमुक्षुक्कृत्यम् । मनुः । “इह चामुत्र वा काम्य प्रवृत्तं कर्म कौर्त्तते । निष्कामं ज्ञानपूर्वन्तु निवृत्तमुपदिश्यते । प्रवृत्तं कर्म संसेव्य देवानामेति सार्टिताम् । निवृत्तं सेव्यमा नन्तु भूतान्यत्येति पञ्च वै । कामनापूर्वकं कर्म शरीर प्रवृत्तिहेतुत्वात् प्रवृत्तं तदेव कर्म कामनारहितम् । पुनर्ब्रह्मज्ञानाभ्यासपूर्वकं संसारनिवृत्तिहेतुत्वात् निवृत्तमुच्यते । सार्टितां
For Private And Personal Use Only