________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८३२
मलमास तत्त्वम् ।
षिणाम्” ॥ इति । “प्रनिष्टे त्रिविधोत्पाते सिंहिकासूनदर्शने । सप्तरात्वं न कुर्वीत यात्रोद्दाहादिमङ्गलम् । इति दौपिकायामनिष्टमित्यभिधानात्। अनिष्टजनको स्पात एक सर्वकर्मानधिकारः । पूर्वलिखितभोजराजवचनेऽपि । “केतू. मोल्कापातनादिदोषे" इति दोषजनक एव तथोपरागे म यह लतः शुभेऽपि यात्रानिषेधाय सिंहिकेति पृथगुपादानम् । अत्र विवाहादावपि सप्तरात्रनिषेधात् पराशरोक्त खल्प कालनिषेध आपद्दिषयः । तेनानिष्टजन के भूमिकम्पादौ न दोषः । अतएव षट् कालिकायाम् । वराहेण उत्पातप्रकरणे प्रायः पदमभिहितम् । तथा च यः प्रकृतिविपय्यासः प्रायः संक्षेपतः स उत्पातः चितिव्योम दिव्यजातो यथोत्तरं गुरुतरो भवति प्राय इति ऋत्वादिप्रयुक्तविपय्यासव्यावृत्त्यर्थं यदाह “ये च न दोषं जनयन्युत्पातास्तान् ऋतुखभावकृतान् । ऋषिपुत्रैः कृतैः लोकविद्यादेतैः समासोक्तः । तथा च मत्स्यपुराणम् " वच्चाशनिमहोकम्पे सन्ध्या निर्घातनिखनाः । परिवेशरजो घूमरक्तार्कास्तमयोदयाः ॥ द्रुमेभ्योऽथ रसस्नेहमधुपुष्यफलोद्रमाः । गोपचिमदवडिव शिवाय मधुमाधवे ॥ तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनं स्फोटं धूमरेणुनिराकुलम् । रक्तपद्मारुणासन्ध्या नमः क्षुब्धार्णवोपमम् ॥ सरिताचाम्ब संशोषं दृष्ट्वा ग्रोधमे शुभं वदेत् । शक्रायुधपरीवेशौ विद्युच्छुष्क विरोहणम् ॥ कम्पोद्दर्त्तन वैकृत्य रसनं दारणं चितेः । नद्युदपानसरसां वृष्ट्य, प्रभिरणप्लवाः ॥ पतनञ्चाद्रिगेहानां वर्षासु न भयावहम् । दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ॥ ग्रहनचत्रताराणां दर्शनन्तु दिवाम्बरे । गौत वादित्रानर्वीषो वनपर्वतसानुषु । शस्यवृद्धौर सोत्पत्तिरपापा: शरदि मताः । शीतानिलतुषारत्वं नदनं मृगपचिणाम् ।
For Private And Personal Use Only