________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतस्त्वम् ।
८२५
न प्रयुजेत स काहा स्यात् श्रेयसो द्वारमावृणुयात्” इति तहानच “अध्यापनेन व्याख्याय प्रतिलिख्यार्पणेन च । सम्भवत्यतो घोमह्निर्निबन्धः क्रियतेऽपि च इति ॥ एवमेव सरला । एवं शिष्यस्यापि गुरुषु दानत्वमाह लघुहारीतः । “एकमध्यवरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृपो भवेत् ॥ लिङ्गपुराणे । " यच श्रुत्वान्यतः शास्त्रं संस्कारं प्राप्य व शुभम् । अन्यस्य जनयेत् कौत्तिं गुरोः स ब्रह्महा भवेत् ॥ विस्मरेथाथवा मौक्यात् योऽपि शास्त्रमनुत्तमम् । स याति नरकं घोरमचयं भौमदर्शनम् ॥ राजमार्त्तण्ड देवलः । “बाले वृद्धे तथैवास्ते कुरुते देत्यमन्त्रिणि । उद्दाहितायां कन्यायां दम्पत्योरेकनाशनम् ॥ चन्तक इति शेषः । राजमार्त्तण्ड | "सिंहे गुरौ परिणीता पतिमात्मानमात्मजान् हन्ति । क्रमशस्त्रिषु पित्रादिषु वशिष्ठगर्गादयः प्राहुः " ॥ पित्रादिषु सिंहघट कमघा पूर्वफल्गुन्युत्तरफल्गुनोप्रथमपादेषु । प्रतिप्रसवमाह शातातपः । “ माध्यां यदि मघा नास्ति सिंहे गुरुरकारणम्” । तत्रैव हेमाद्रिष्टतमाण्डव्यवचनम्। “श्रुतिवेधजातकान्नप्राशनचूड़ादिकः सर्वः । रविभवनस्थे जौवे कार्यो वज्र्यो विवाहस्तु” ॥ माध्यां मघायोगे तु ऋक्षेकमन्दिरगतावित्यादिना सर्वकर्म निषेधात् । पथैवं विवाहोऽपि श्रूयते । तथा च राजमार्त्तण्ड दत्तः । "गुरौ हरिस्थे न विवाहमाहुरीत गर्गप्रमुखा मुनीन्द्राः । यदा न माधौ मघसंयुता स्यात् तदा च कन्योद्दहनं वदन्ति " | प्रत्यच माध्यां मघायोगाभावेऽपि श्रुतिवेधादिमघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्मधा परित्यागादेव तथा च माण्डव्यः । " मघा ऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् । तत्राब्दे कन्यका चोढ़ा सुभगा सुप्रिया भवेत् " ॥ वात्स्यायनः । “यात्री
For Private And Personal Use Only