________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१८
मलमासतखम् । अथ “विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः । प्रतिषिद्धक्रियासाध्यः सगुणोऽधर्म उच्यते" ॥ इति तान्त्रिक रभिहितम्। "चिरध्वस्त फलायालं न कम्मातिशयं विना" इत्यनेन काम्यस्थलेऽपूर्वे शक्तिकल्पनावश्यकत्वेनान्यत्रापि । "स्थालीस्थास्तण्डुला एते सर्वे विल्लित्तिभागिनः। समकालाग्निसंयोगभागित्वात् प्रतिपनवत्" इति स्थालोपुलाकन्यायेन वैदिकलिङ्त्वावच्छेदेनापूर्वे शक्तिकल्पनात्। प्रतिपन्न हस्तमर्दनादिना स्फुटितत्वेन जातम् । कार्यनियोगापूर्वशब्दरचार्यमाणो धात्वर्थसाध्य वर्गादिफलसाधनात्मगुणो धर्म इति प्रभाकरैरभिहितम्। तत्कथमत: पुण्यत्वमिति चेत् तज्जनः नयोग्ये भातोऽयं पुण्यशब्दः। तथा च भट्टवार्तिकम् । “द्रयक्रियागुणादीनां धर्मत्वं स्थापयिष्यते। तेषामन्द्रियकत्वेऽपि न तादप्येण धर्मता। श्रेयः साधनता ह्येषां नित्यं वेदात् प्रतीयते। तादृप्येण च धर्मत्व तस्माबेन्द्रियगोचरः" इति । तादृप्यण स्वरूपत्वेन। तच्च पुण्यत्व यथा रिक्तादिदोषरहितत्व शोभनचन्द्रादिलञ्च तथा मलिनुचादिदोषरहितत्वमपि। तथा च रत्नाकरादितं न्यायरत्नवाक्यम्। पुणे शुद्ध तच्च मलिग्लुचगुरुशक्रबाल्यवृद्धास्तमयसिंहमकरान्यतरगुरुस्थिति पूर्वराश्यनागतातिचारिगुरुकवत्सरपूर्वराशिसमियमाणातिचारिगुरुकपक्षवयवक्रिगुरुकाष्टाविंशतिवासरकम्पा. द्यतोत्तरसप्ताहसिंहादित्यगुर्वादित्यपौषादिमास-चतुष्टयान्य. तमैकहित्रितदधिकान्यतमदिनहत्त्याकालिकाध्युत्तर एकविसप्ताहान्यतमदिननिषिद्धसमयान्यसमयत्वमिति । एषु प्रमाणं वक्ष्यामः । अत्र नव्यवर्द्धमानः। एकदिनितदधिकान्यतम. दिनवृत्त्या कालिकवट्युत्तरैत्रिसप्ताह इत्यत्र उत्तरदिनत्वस्य पूर्वदिननिरूप्यत्वात् उत्तरत्वपूर्वत्वयोविरुद्धतया नानात्वात् ।
For Private And Personal Use Only