________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८१७ विधानाच्च। ततस देवलादिवचनविरोधात् प्रेतकार्यमिति म प्रेताचपरं किन्तु पतितप्रेतसम्प्रदानकदासीघटोदकदानपरम्।
अथ समयाशुद्धिः । ज्योतिःपराशरः । “अन्याधेयं प्रतिष्ठाञ्च यजदानव्रतानि च। देवव्रतवृषोत्सर्गचड़ाकरणमेखला: ॥ माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्। बाले वा यदि वा वृद्ध शक्रे चास्तमुपागते॥ मलमास इवैतानि वर्जयेवदर्शनम्। पक्षं वृहस्तु पूर्वेण दशाहं पश्चिमेन तु ॥ प्रत्यग्बालो दशाहन्तु पूर्वेण च दिनत्रयम् ॥ पूर्वेणेति प्रातः प्रातः पूर्वदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेदग्रहसदा प्रागस्तमितः तत्रास्तमितात् प्राक् पक्षं वृद्धः। पश्चिमेनेति। एवं सायं सायम् अपरदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेदग्रहस्तदा प्रत्यगस्तमितस्तत्रास्तमितात् प्राक् दया वृक्षः। “हाविंशदिवसाधास्ते जीवस्य भार्गवस्य च। हासप्ततिर्महास्ते तु पादास्ते बादशक्रमात् ॥ इति ज्योतिर्विदुक्ताकालानन्तरमपरदिशि दृश्यते चेत्तदा दशाह प्रत्यग्वाल: पूर्वदिशि चेत्तदा दिनवयं प्राग्वाल इति भयन्त. रेणाह। “पक्षं वृद्धो महास्ते तु बालश्चात्र दशाहिकः । पादास्ते तु दशाहानि हो बालो दिनत्रयम्" ॥ अन मलमासादिकौतनं पुण्येतरकालोपलक्षणम् । बहनामेकधर्मागामिकस्यापि यदुच्यते। सर्वेषामेव तत् 'कुर्यादेकरूपा हि ते स्मृताः ॥ इति वौधायनवचनात्। अतएव प्रतिप्रसवे कालदोषो न विद्यते इति सामान्यत उक्तम् । तथा च गोभिलपारस्कराभ्यां कर्मणः कालपरिभाषायाम् उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्तनादः कालं विद्यादिति उदगयने आपूर्यमाणपक्षे पुण्याहे इति सूत्राभ्याम् महो वासरस्य पुण्यत्वमुक्ताम्।
For Private And Personal Use Only