________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१६
मलमासतत्त्वम् । प्रकरणे। "सर्वमङ्गलकार्याणि त्रिषु जन्मसु कारयेत् । विवादश्राद्धभैषज्ययात्राक्षौराणि वर्जयेत् ॥ दीपिकायां मैत्रे श्राद्धविधानादारुणगणे यन्मैत्रमिति पठितं तदनुराधा इति व्याख्यातञ्च वाचस्पतिमिशेण तद्द यम्। अतएव श्राइविवेककता। "दारुणञ्चोरगं रौद्रमैन्द्रं नैऋतमेव च । ऐन्द्रं ज्येष्ठेति लिखितम्। एवञ्च “नक्षत्रेऽपि न कुर्वीत यस्मिन् जाती भवेन्नरः। न प्रौष्ठयदयोः कार्य न चाग्नेये च भारत। दारुणेषु च सर्वेषु प्रत्ययौ च विवर्जयेत्" । इति श्राद्धाधिकारी महाभारतवचनं तत्प्रदर्शनमात्रम् । त्रिषु जन्मसु एव पूर्व निषिदत्वात् प्रौष्ठपदा पूर्वभाद्रपदा हितारकत्वात् द्विवचनम् इति श्रावविवेकवत्। ततश्च यत् वाचस्पति मिश्रेणाभिहित प्रौष्ठपदी पूर्वभाद्रपदोत्तरभाद्रपदौ इत्यत्रापि हेयम्। एतत्तारायाः पुंसि प्रयोगोऽप्य. माधुः स्त्रियां शेषाः। इति वक्ष्यमाणत्वात् “समधिनिष्ठाः स्युः प्रौष्ठपदाभाद्रपदास्त्रियः" इत्यमरकोषाञ्च। पूर्वभाद्रपदाया एव श्राइमधिकृत्य विष्णुधर्मोत्तरेण उग्रत्वेन निषेधाच। यथा “नक्षत्राणि तथैवात्र दारुणोग्राणि वर्जयेत् । नचोत्तरभाद्रपदाया अपि उत्तरावितय रौद्रगेहिणीयाम्य सर्पपिटभेषु चाग्निभे। श्मश्रुकर्म सकल विवर्जयेत् प्रेतकार्यमपि वद्धिमानरः” इति वचनाविषेध इति वा तैरेव कृतदेवलवचनविरोधात् यथा "उत्तराश्रवणतिष्थो मृगशीष : प्रजापतिः। हस्तः शतभिषस्वातौचित्रापित्रामथाखिभम् । नक्षत्राणि प्रशस्तानि सदैवैतानि पैटके। अपराधि च ऋक्षाणि उच्यन्ते कारणैः कचित्'। उत्तरास्तिस इति कल्पतरुः। अपराणि धनिष्ठादौनि कारणैर्मघामावास्यायोगादिभिः। . पूर्वलिखितदीपिकावचने ध्रुवत्वेन उत्तरा
For Private And Personal Use Only