________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमायतत्त्वम् । सत्तच्छास्त्रानुरोधात् इयोरपि कल्पनम् । यथा सगोत्रादि. विवाहसप्तमचन्द्रादि उपरागदर्शनादौ । ततश्च तथाविध. विषये सञः पर्युदासप्रसज्यप्रतिषधोभयपरत्वाहाक्यभेदकल्पनमपि प्रामाणिकम् । अतएव ऋतुकालाभिगमनं कुर्यात् पर्वणि वर्जयेदिति वृहस्पतिना ऋत्वभिगमननियमे पर्वणः पर्युदासे कृतेऽपि "चतुदश्यष्टमी चैव अमावास्या च पूर्णिमा। पर्वाख्येतानि राजेन्द्र रविसंक्रान्तिरेव च । स्त्रोतलमांससम्भोगौ पर्वखेतेषु यो नरः। विण्म त्रभोजनं नाम प्रयाति नरकं मृतः" इति विष्णुपुराणे निन्दया। "वेदोदितानां नित्यानां कर्मणां समतिक्रमे। सातकव्रतलोपे च प्रायश्चित्तमभोजनम्" ॥ इति मनतोन च यथाक्रमं रागप्राप्तगमननिषेधः प्रायश्चित्तञ्च सङ्गच्छते। अन्यथा तदुभयं न स्यात्। अतएव भोजराजः। “पौष चैत्रे कृष्णपक्षे नवान्नं नाचरेबुधः । भवे. जन्मान्तरे रोगो पितृणां नोपतिष्ठते" ॥ इति रोगौति निन्दाश्रवणात् प्रसज्यता नोपतिष्ठत इति श्रवणात् पर्युदासतेति । यत्तु ज्योतिष। “कर्म कुर्यात् फलावाप्ने चन्द्रादिशोभने बुधः । सुस्थकाले विदं सर्व नातः कालमर्पक्षते। चन्द्रे च शङ्ख लवणच्च तारे तिथावभद्रे सिततण्डुलांश्च । धान्यच दद्यात् करणवारे योगे तिलान् हेममणिञ्च लग्ने" ॥ इति देवलवचनात् प्रायश्चित्तानन्तरं कर्मोपदिष्टम्। अतएव “न सकलगुणसम्पत् लभ्यतेऽल्पैरडोभिर्बहुतरगुणयुक्ता योजयेन्मा. लेषु। प्रभवति हि न दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य" ॥ इत्यनेन “कष्टाभौष्ट तुल्यसंख्य फले चेत् स्यातां नाशः फलयोंस्तत्र वाच्यः। वाच्यापंजिर्योऽतिरिक्तस्तयोः स्यात् सर्वस्थाने कल्पनैवं प्रदिष्टा' इति वादरायणवचनेन च प्रवर्त्तवे न तत्र पर्युदास इति । अतो विधि
For Private And Personal Use Only