________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८०६
मलमासत्वम् ।
सर्वयज्ञेषु मन्त्रगणो विनियुक्त इति । यजतिषु ये यजामह करणत्वमुद्दिष्टं तदुपदिश्य चान्नातं नानुयाजेष्विति । पत्र संशयः किं विधायक प्रतिषेधकयोरवैयर्थ्यार्थम् विधिप्रतिषेधसन्निपाताद्दिकल्पः । किं वा पर्युदासोऽनुयाजातिरिक्तयाजेषु ये यजामहः कार्य इति । नन्वेवं विषयसौन्दय्यात् प्राप्तस्य शास्त्रीयेण निषेधेन कथं न विकल्प इति चेत् तात्कालिक श्रेयःसाधनत्व' प्रत्यक्षवोधित प्रतिषेधेन तु कालान्तरीयामिष्टहेतुत्व' प्राप्यत इति विषयभेदेन तुल्यार्थोपनिपाताभावात्र विकल्प इति तर्हि कथं वाध्यवाधकतेति चेत् यदिदानीं प्रहतस्य सुखं दृश्यते तत्तुल्यमेव चेद्दुःखं कालान्तरे भवेत्तर्हि व्यर्थोऽयं प्रतिषेधः स्यात् प्रवृत्तेदुःखकरत्ववत् निवृत्तेरपि सुखविगमहेतुत्वात् । ततख दृष्टात् सुखात् अधिकं दुःखमायत्यामिति विद्वांसं विभ्यतमास्तिकपुरुष शक्नोति रागतः प्रहतेर्निवारयितुं बलीयान् शास्त्रप्रतिषेधः । यथा लोके भुजङ्गायाङ्गुलिर्न देयेति प्रतिषेधस्य प्रतिषेध्यं प्रति बलवत्त्वात् इति न तया विकल्पमईतीति शास्त्रौयौ तु विधिनिषेधौ तुल्यबलतया षोड़शग्रहणाग्रहणवद्विकल्पते तत्र हि विधिदर्शनात् प्रधानस्योपकार भूयस्त्वं कल्पते निषेधदर्शनाश्च वैगुण्येऽपि फलसि - हिरवगम्यते । यथाह जैमिनिः । अर्थप्राप्तवदिति चेन तुल्यहेतुत्वादुभय' शब्दलक्षणम् । अल्पस्यार्थः अर्थात् विषयसौन्दखात् प्राप्तस्य मांसभोजनस्य यथा सर्वदा निषेधः तथा शास्त्रप्राप्तस्यापि स भवत्विति चेत्र प्रतिषेध्यस्य प्राप्तेः प्रतिषेध्यस्य च तुल्यप्रमाणकत्वात्तदेव दर्श्यते उभयमिति । उभयं प्रवृत्तिप्रतिषेधरूपं शब्दलक्षणं शब्दस्य प्रमाणकमित्यर्थः । यथातिराव षोडशिन गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति षोडग्रौ सोमकपात्नविशेषः । ये तु ब्रुवते याहविक ग्रहणप्राप्तिनि.
For Private And Personal Use Only