SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतवम् । 592 पाचो यज्ञानां कसनाशकृत् । मेऋत्यतिधानाद्यैः समाक्रान्तो विनामकः" इत्यादि ज्योतिःशास्त्रे पाषाढ़ादिनामशून्यत्वेन विनामकता मलमासस्योक्ता इति न तत्राव्याप्तिरिति वाच्य हिराषाढ़ : सविज्ञेय इत्यादिप्रयोगात् " तवं यद्दिहितं कर्म उत्तरे मासि कारयेत्" इत्यभिधानाश्च । तस्यान षाढ़ादित्वाभावे तत्र यविहितमित्यनुपपत्रं स्यात् व्यासोक्त लक्षणाक्रान्तत्वाच । किञ्च मलमासस्याषाढ़ादिनामशून्यत्वेन तस्य वक्ष्यमाणे काठकता वितरानुपजीवतीत्यभिधानं न सङ्गच्छते । इतरोपजीवनं हि तदा भवति यदि तस्याषाढ़ादित्व' स्यादिति तर्हि विनामकत्व कुत इति चेहिरुहनामकी विनामकस्तस्य मलिम्बुचादिनामकत्वात् । यद्दा सदपि नामासदेव तमासकर्मानर्हत्वात् रत्नकोषे तु समानान्तोऽधिमासक इत्येव पाठः । चयमासस्य हिमासत्व तत्र मृतस्य कर्मण्यनध्यवसायः स्यात् किं पूर्वो मास: किं बोत्तरी मास इति । न च कपालाधिकरणन्यायात् पूर्वोमास इति वाच्य तथात्व े तदुत्तरे मलमासपाते क्षयमासमृतस्य सप्तदशवाहानुपपत्तेः । वस्तुतस्तु तत्रैव कपालाधिकरणन्यायस्य विषयो यत्र क्रमिको पस्थितयोर्व्यक्त्योः प्रथमोपस्थितस्य ग्रहणम् अत्र तु व्यक्तभेदेन क्रमिकोपस्थित्वभावात् कथं तदवसरः । स च न्यायो दशमाध्याये चिन्तितो यथा वैष्णव्य एककपाल इति तौ कपालधर्माकाङ्क्षायाम् प्राग्नेयाष्टाकपालो भवति पौर्णमास्यामिति प्रकृतियागसम्बन्धिकपालधग्रहे यस्य कस्या -- येकस्य कपालस्य धर्मानुष्ठानोपकार सिद्धौ कस्येत्यपेक्षायां प्रथमोपस्थितत्वेन प्रथमकपालधर्मानुष्ठानमिति । न च तत्र "तिष्यडें प्रथमे पूर्वो द्वितीयार्थे तदुत्तरः । मासाविति बुधेश्चिन्त्यौ चयमासस्य मध्यगौ" ॥ इति वाक्ादावस्था भविष्यतौति वाच्यम् । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy