________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७५
मलमारतत्वम् । भट्टपादः लब्धात्मिका सतौ रूढिर्भवेद्योगापहारिणौ। कल्पनौया तु लभते नात्मानं योगवाधतः । न च सौरादिष्वपि चन्द्रादिक्रियाया अव्यभिचारालघुहारौतोक्तवहिष्णुधर्मोत्तराभिहितोपाधिचतुष्टयसहवताद्योगहयात् प्रवृत्तिरस्तु मासशब्दस्येति वाच्यं लघुहारीतीतस्वादिमध्यसमाप्तिकौतनखरसादुपाधित्व विष्णुधर्मोत्तरोतस्य तु तथात्वाभावात् न तथात्वमिति । वस्तुतस्तु चान्द्र एव मासे चन्द्रक्रियाया हक्षियरूपाया असा. धारणत्वेन प्रकृत्तिनिमित्तत्व सौरादौ तु सूर्यादिक्रियाणां तथेति। अतः कथं सौरादौ मासपदप्रयोगावसरः। तथा च शारीरकटोकायां वाचस्पतिमित्राः असाधारणत्वेन हि व्यपदेशा भवन्ति। यथा क्षितिजलपवनवौजादिसामग्रौसमवधानजन्माप्यकुरः शालिवौनजन्यत्वेन व्यपदिश्यते शाल्यङ्गुर इति न क्षित्वादिभिः तेषां कार्यान्तरेऽपि साधारण्यात् तहिं दर्शा. सवञ्चन्द्रक्रियाया असाधारखेन पौर्णमास्यन्तेऽपि कथं न प्रतिनिमित्तत्वमिति चेदुपाधित्वप्रतिपादकवचनाभावात् किन्तु ब्रह्मपुराणादौ प्रौष्ठपदूई कृष्ण पक्षादावश्वयुगादिप्रयोगातथा व गौण्यावसीयते इति। एतत् सर्व क्रियैव काल इति मतानुसारादुक्तं तदतिरितकालवादिमते तु सर्वत्र तत्तत्क्रियोपलक्षित: काल इति विशेषः। तथा च विष्णुपुराणे । “कालखरूपं रूपं तहिष्णो मैत्रेय वर्तते । विष्णुधर्मोत्तरे । “अनादिनिधन: कालो रुद्रः सङ्कर्षणात्मकः। कलनात् सर्वभूतानां स काल: परिकीर्तितः ॥ कलनात् लयकरणात् । तथा च विष्णुः । “ये समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः । तेऽपि कालेन लोयन्ते कालो हि बलवत्तरः" ।।
पथ चैत्रादि शब्दानां चान्द्रवाचिता। लघुहारीतः । "चक्रवत् परिवर्तेत सूर्य: कालवशादयतः। अतः सावत्सरं
For Private And Personal Use Only