________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७४८
मलमास तत्वम् ।
मनियत मापद्येत | सावने तु नियतं तेनात्रापि सावनगणनायुक्ता योषिद्यवहारसिडा च । ग्रहन्येकादशे नाम इत्यत्रापि " अशौचव्यपगमे नामधेयम्” इति विष्णुस्वात् । सूतकोत्तरदिनपरमेकादशपदं पूर्वोक्त सूर्य सिद्धान्तोक्तवचनेन सूतकस्व सावन दिन घटितत्वात् तदुत्तरकालस्यापि तथात्वं तस्माद्गर्भाधानपुंसवननामकरणेषु सावनदर्शनात् तत्साहचर्य्यात् सोमतोयनादावपि मासवर्ष गणनायां तथेति चतखड़ोपनयनादिषु वर्षगणना सावनेन शुभाशुभमणनन्तु सौरेणेति सिद्धम् । एवमेन इति एवमुक्तप्रकारगर्भाधानादिभिरेनः पापं वौजगर्भसमुद्भवं शुक्रशोणितसम्बन्धं गावव्याधिसंक्रान्तिनिमित्तं नाशं याति नित्यत्वेऽप्यानुषङ्गिकमेतत् । उपनयनोत्तरावधिमाह याज्ञवल्काः । " प्राषोड़शाच दाविंशाच्चतुर्विंशाश्च वत्सरात् । ब्रह्मचत्रविशां काल श्रोपनायनिकः परः" ॥ चाङ अभि विध्यर्थः । मय्यादाभिविधिसन्देहे काव्यान्वितत्वेनाभिविधेरेक बलवत्त्वात् एवमेव भट्टभाष्य सरलाभवदेव भट्टमिताक्षरा कुल्लकभट्टकल्पतरुस्मृतिसारप्रभृतयः । शूलपाणिरपि याज्ञवल्काटीकायामेव किन्तु प्रायवित्तविवेके मय्यादार्थकतामाह यमवचनात् । यथा “ पतिता यस्य सावित्री दशवर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः " ॥ कुल्लकभट्टप्रायवित्तकल्पतरुष्टत मप्येतत् । अत्र ब्रूमः । " औपनायनिकः कालः परः षोड़शवार्षिकः । द्वाविंशतिः परोऽन्यस्य स्वाञ्चतुर्विंशतिः परः" इति कल्पतरुष्टतव्यासवचनं परोऽन्त्यः षोड़शवार्षिक षोडशवर्षे वाप्य भूतः स्थित इति यावत् । तमधौष्टो भृतो भूतो भावौति ठक् वर्षस्या भविष्यतीति उत्तरपदवृडिः अधीष्टोऽध्येषणायुक्तो बुरुः भृतो भृतिग्टहोतो दासः । राजमार्त्तण्डे कत्यचिन्ता
For Private And Personal Use Only