________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् । मकोपनयनविधानाच तत्परः। न चात्राप्युदगयनाद्यपेक्षा। कते नि:संशये पापे इत्यादिनिन्दार्थवादेन विलम्बासहत्वात् एकदिनस्योपवासेन गमयितुं शक्यत्वात्। यथा गर्गः । "विप्रस्थ क्षत्रियस्यापि मौसौ स्यादुत्तरायणे। दक्षिणेच विशां कयं नानध्ययनसंक्रमे ॥ अनध्यायेऽपि कुर्वीत यस्य नैमित्तिकं भवेत् ॥ अपिना दक्षिणायनकृष्णपक्षयोः समुच्चयः नैमित्तिकं प्रायश्चित्तरूप पारस्करः । “विवाहोत्सवयज्ञेषु सौर मानं प्रशस्यते। पार्वणे त्वष्टकाबाई चान्द्रमिष्टं तथाब्दिके। अप यन्नपदमुदगयनादिविहितपश्यागाभिप्रायं पितामह विष्णुधर्मोत्तरोतसत्रपरश्च । गर्गः । "पायुर्दायविभाग प्रायश्चित्तक्रिया तथा। सावनेन तु कर्तव्या मन्त्राणामप्य - पासना" ॥ सूर्यसिद्धान्ते। “सूतकादिपरिच्छेदो दिनमा साब्दपास्तथा। मध्यमग्रहमुक्तिश्च सावनेन प्रकीर्तिता" ॥ मध्यमग्रभुक्तिोतिर्गणनाप्रसिद्धा। याज्ञवल्क्यः। "गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा। षष्ठेऽष्टमे वा सौमन्तः प्रसवे जातकर्म च ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः। षष्ठेऽवप्राथनं मासि चड़ा काया यथाकुलम् ॥ एवमेनः शमं याति वीजगर्भसमुद्भवम्” ॥ ऋतौ ऋतुकाले। यथा मनुः। “ऋतुकालाभिगामौ स्यात्” इति स च कालो यात्रवस्कयोक्तः। षोड़शनिशाः स्त्रीणां तासु युग्मास संविशेत् । तेन गर्भधारणयोग्यावस्थोपतक्षितः काल ऋतुः । सच रजोनिःसरणकालमारभ्य षोड़शाहोरात्रात्मकः ततश्व गर्भाधानसंस्कारोपक्रमे सावनगणनासिद्धा। पुंसवने चतुर्थे स्पन्दते ततः। इति वचनात् स्पन्दनात् पूर्व हतौयमास: काल: तत्र चतुर्थमासस्य सौरले चान्द्रत्वे वा निषेकमासस्थापि तथावे तदाद्यन्तदिननिषेके सत्यधिकन्यनकालयोगर्भस्पन्दन
For Private And Personal Use Only