________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२
तिथितत्त्वम् ।
स्त्राणि तदग्रतः ॥ लोकपाला इन्द्रादयो दश तदस्त्राणि वज्रशक्ति दण्ड खङ्गपाश अङ्कुशगदा शूल चक्र पद्मानि । मध्या जम्म भावयेत् । "उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दो नवस्यातिथो लग्ने कर्कटके पुनर्वसुदिने मेष गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधो मध्यादयोध्यारणेराविभूत मभूदपूर्वविभव यत्किचिदेकं महः " ॥ पलाशा राक्षसाः "मत्वैव' वादयेाद्यानध्यं दद्याज्जगत्पतेः । फलपुष्पाम्बु सम्पूर्ण टोला शङ्खमुत्तमम् । अशोकरत्न कुसुमेयुक्तच तुलसीदलैः” ॥ मन्त्रस्तु " दशाननवधार्थाय धर्मसंस्थापनाय च । दानवानां विनाशाय दैत्यानां निधनाय च ॥ परित्राणाय साधूनां रामो जातः स्वयं हरिः । ग्टहाणा घ्यं मया दत्तं भ्रातृभिः सहितो मम ॥ पुष्पाञ्जलिं पुनर्दत्त्वा यामयामेष्वतन्द्रितः । पूजयेद्दिधिवद्भक्त्या दिवारात्र नयेदुधः” ॥
"
तदयं संक्षेपः । शुद्धायां नक्षत्रयुक्तायां विवादाभावः विडायान्तु एकादशोदिने दशमौपारणयोग्या न चेत् तदा नक्षत्रयोगायोगेऽपि अष्टमीविद्यायां पारणयोग्या चेत् तदा अष्टमौ fasi व्यक्ता परेऽहनि उपवासः ।
"
अथ दशमौ । सा च शुक्ला एकादश्या कृष्णा तु नवम्यायुता ग्राह्या । यथा अङ्गिराः “ सम्पूर्ण दशमौ कार्य्या पूर्वया परयाथवा । युक्ता न दूषिता यस्मादिति सा सर्वतोमुखौ " ॥ यथा सम्पूर्ण दोषरहिता तथा विद्यापति विकल्पे व्यवस्थापयति विष्णुधर्मोत्तरौयं “ शुक्लपचे तिथिर्ब्राह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः । ब्रह्मपुराणब्रह्मवैवर्त्तयोः । “ज्येष्ठस्य शुक्लदशमी संवत्सर मुखौ स्मृता । तस्यां स्नानं प्रकुर्वीत दानञ्चैव विशेषतः ॥ यां काञ्चित् सरितं प्राप्य दद्याह भैस्तिलोदकम् । मुच्यते दशभिः पापैः सुमहापातकोपमैः ॥ पत्र केवलदशम्यां नदीमात्रे दर्भकरणकतिलतर्पणाङ्गकनानाद्दशविधपापचयः फलम् एवं दानादपि वस्तुतस्तु वच्यमाणर्भाविष्य जाह्नवी पदश्रवणात् हेतुमन्निगदस्वरसाच्च । ब्रह्मवैवर्त्तेऽपि सरित्पदं जाह्नवीपरम् अन्यथा नानाविधिः स्यात् । यां काञ्चिदिति तु जाह्नवी
For Private And Personal Use Only