________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७३०
ज्योतिस्तत्वम् । जनार्दनः। मन्त्रेणानेन चाखत्थं प्रार्थयेहोषसूचने। चिन्ता दुष्टेन गोकेन व्याधिग्रस्तेन वा पुनः। कामशुष्कण चित्तेन स्वप्ने न फलभाग्भवेत्। अविज्ञातवरूपाणां नराणां ज्ञानहेतवे। स्वप्ने दृष्टानि वक्ष्यामि पुण्यपापोद्भवानि च। एव. चैषां सूचकत्वं न कारकत्वम् “पादित्यमण्डलं खप्ने चन्द्रं वा यदि पश्यति। व्याधिभ्यो मुच्यते रोगी अरोगी सुखमानयात्। दौपमन्त्र फलं वस्त्रं कन्यारत्नं रथध्वजम् । यस्तु पश्यति स्वप्रान्ते लभते चोत्तमां श्रियम्। उपानही च छवञ्च लब्धा यः प्रतिबध्यते। प्रसि वा निर्मलं तौक्षण मध्वान तस्य निर्दिशेत् । देवताश्च हिजा गाव: पितरो लिङ्गिनः स्त्रियः । यद्ददन्ति नरं स्वप्रे तत्तथैव भविष्यति। प्रारोहणं गोहयकुञ्जराणां प्रासादी लागव. नस्पतीनाम्। पारुह्य नौकां प्रतिरय वीणां भुवा कदित्वा ध्रुवमर्थलाभः । भक्षणचामांसस्य मत्मास्य पायसस्य च । दर्शनं रुधिरस्यापि सानं वा रुधिरेण च । मुरारुधिरमद्यानां पान चौरस्व शोभनम्। जोवतां भूमिपालानां मुहृदामपि दर्शनम् । उरगो वृथिकश्चैव जलौका दृश्यते यदि। तदा पुत्रादि लाभ: स्थादगम्यागमनै शुभम्। सर्वाणि शुक्लानि सुशोभनानि कार्यामभस्मास्थिकपालवर्जम् । सर्वाणि कृष्णानि विनिन्दितानि गोहस्तिदेवहिजवाजिवर्जम्। मरणं बन्धनं धन्यं वह्निदाहो ग्रहादिषु। शक्लपीताम्बरा नारौ शुक्लपौतानुलेपना। अवगृहति यं स्वप्ने तस्य स्यात् सर्वत: सुखम् । कृष्ण रक्ताम्बरा नारी रत्त कष्णानुलेपना। अवगृहति यं स्वप्ने व्याधिं मृत्युच्च निर्दिशेत। वराहक्षखरोष्ट्राणामारोहो महिषस्य च । भक्षणं पक्षिमांसानां तैलस्य कशरस्य च । नर्तनं इसनञ्चैव विवाहो गौतमेव च। तन्त्रीवाद्यविहौनानां वाद्यानामपि वादनम्। दिव्यान्तरौक्षभौमानामुत्पातानान्तु दर्दनम् । स्वप्ने पश्यति
For Private And Personal Use Only