________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४
तिथितत्त्वम् । उभय वियोगेऽपि तथैव युक्तात्वात्। अन्यथा सांयोगिक इत्यस्य निर्विषयतापत्तेः । एवञ्च "सायमाद्यन्तयोरोः सायं प्रातच मध्यमे। उपवासफलं प्रेसोर्वज्यं भताचतुष्टयम्" इति महाभारतौयौत्सर्गिक द्वितीय दिनपारणस्याप्यवाधः। एतविषय एवोत्सवान्ते पारणमाह "तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वीत पारणम्" इति। न च अत्र तिथ्यन्ते तारकान्ते वेति पाठ इति वाच्य पूर्वपाठस्य हेमाद्रिनिर्णयामृत माधवाचार्यतत्वात् व्याख्यातत्वाच्च एतद्विषये ब्रह्मवैवर्तः। “सर्वेष्वे. वोपवासेषु दिवा पारणमियते। अन्यथा फल हानिः स्यादृते धारण पारणम् ॥ धारणं नियमग्रहणं ततवारहोत नाव्रतस्य रात्रिपारणनिषेधः। गरुड़ पुराणेऽपि “अन्यतिथ्यागमोरात्रौ तामसस्तेजसो दिवा। तामसे पारणं कुर्व स्तामसी गतिमाप्नुयात्” । न च यदि प्रथम निशायामेकतरवियोगस्तदापि ब्रह्मवैवर्तादि वचनाद्दिवा पारणमनन्तभट्ट माधवाचार्योक्तं युक्त मिति वाच्य “न रात्री पारणं कुयादृते वै रोहिगोव्रतात्। निशायां पारणं कुर्यात् वयित्वा महानिशां" इति संवत्सरप्रदीपकृतस्य न रात्री पारणं कुर्य्याहते वै रोहिणीव्रतात्। अत्र निश्यपि तत् कार्य वयित्वा महानिशां" इति ब्रह्माण्डोक्तस्य च निर्विषयतापत्तेः । स्त्रोणां यवानादि भोजनमप्याह ब्रह्मपुराणं "तत: प्रविश्य च गृह यवान्नं भुञ्जते च ताः । युक्त मिक्षविकारैश्च मध्वाज्यमरिचैः सह।
तदयं संक्षेपः। यत्रकदिन जयन्तीलाभस्तत्रैवोपवासः । उभयदिने चेत्तदा परदिने। जयन्त्यलाभे च रोहिणीयुत्ताष्टम्याम्। उभयदिने रोहिणीयुक्ताष्टमौलाभे परदिने। रोहिण्यलाभे तु निशौथसम्बन्धिन्यामष्टम्याम्। उभयदिने निशोथसम्बन्धे तदसम्बन्धे वा परदिन इति। उपवास परदिने तिथिनक्षत्रयोरवसाने पारणम्। यदा तु महानिशायाः पूर्वमेक तरस्थावसान मन्यतरस्य महानिशायां तदनन्तरं वा तदेकतरावसाने पारणम् । यदा महानिशायामुभयस्थितिस्तदोत्सवान्ते प्रातःपारणमिति। इति वन्यपटोय श्रीरघुनन्दनभट्टाचार्यविरचितं श्रीकृष्णजन्माष्टमौतत्त्व समाप्तम्।
For Private And Personal Use Only