________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
॥
विशालं पूर्वतो हौनं कार्य्यं वा सौम्यवर्जितम् ॥ केचिद्दक्षिणभागे तु वदन्त्येकं गृहं बुधाः । ऐशान्यां देवशाला स्यात् प्राग्नेय्याश्च महासनम् | पायुष्करन्तु ने त्यां वायव्यां कोषमन्दिरम् " || मत्स्यपुराणे । “चैत्रे व्याधिमवाप्नोति यो गृहं कारयेवरः । वैशाखे धनरत्नानि ज्य ेष्ठे मृत्युस्तथैव च ॥ श्राषाढ़े धनरत्नानि पशुवर्जमवाप्नुयात् । श्रावणे काञ्चनं पुत्रान् हानिं भाद्रपदे तथा । पनौनाथ इषे मासि कार्त्तिके धनधान्यभाक्। मार्गशौर्षे तथा भक्त पौधे तस्करतो भयम् ॥ माघे चाग्निभयं विद्यात् फाल्गुने काञ्चनं सुतान्। शुक्लपचे भवेत् सौख्यं कृष्णे तस्करतो भयम्” ॥ विशेषयति भोजः । "कर्किकुम्भहरिनगते पूर्वपश्चिममुखानि गृहाणि । तौलिमेषष्टषवृश्चिकजातदक्षिणोत्तरमुखानि कुर्य्यात् ॥ अन्यथा यदि करोति दुर्मतिर्व्याधिशोकधनहानिमश्रुते । मौनचापमिथुनाङ्गनागते कारयेव गृहमेव भास्करं ॥ न प्रधानम्गृहारम्भ' कुखात् पौषे शुचावपि । यदि कुयात् सोऽचिरेण महतोमापदं व्रजेत् ॥ महाभारते । "निषिडेऽपि हि काले तु स्वानुकूले शुभे दिने । तृणवस्त्रम्टहारम्भे मासदोषो न विद्यते ॥ छेदनं संग्रहञ्चैव काष्ठादौनां न कारयेत् । श्रवणादौ बुधः षट्के न गच्छेद्दक्षिणां दिशम् ॥ अग्निपीड़ा भयं शोको राजपौड़ा धनञ्चयः । संग्रड़े तृणकाष्ठानां कृबे वखादिपञ्चके ॥ चोरिवृतोद्भवं दारु गृहेषु न निवेशयेत् । छताधिवासं विहगैर निलानलपीडितम् ॥ मजेर्विभग्नञ्च तथा विद्युविर्घात पौडितम् । चैत्रदेवालयोत्पत्रं वज्रभग्नं श्मशानजम् ॥ देवाद्यधिष्ठितं दारु नौपनिय्वविभीतकान् । कण्टकिनोऽसारतरून् वर्जयेत् गृहकर्म्मणि ॥ वटाश्वत्यौ च निर्गुण्डों कोविदारविभीतकौ । प्रचकं शाखालौचैव पलामञ्च विवर्जयेत् ॥ विस्तारात् द्विगुणोच्छ्रायं द्वारं कुर्य्या
For Private And Personal Use Only