________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર
तिथितत्त्वम् ।
1
मुक्तम् । यदा च साईप्रहर निशाभ्यन्तरे एकस्य वियोगस्तदैकतरवियोगेऽपि पारणम् । तथा च नारदौये " तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । पारयन्तु न कर्त्तव्यं यावन्नैकस्य संक्षयः । सांयोगिके व्रते प्राप्ते यद्येकोऽपि वियुज्यते । तत्रैव पारणं कुर्य्यादेवं वेदविदो विदुः ॥ यद्य कस्यापि साईप्रहरनिशाभ्यन्तरे न वियोगस्तदा तयोरवियोगेऽपि प्रातदत्तवान्तळे पारणं “तिथ्यन्ते चोत्सवान्तो वा व्रतौ कुर्वीत पारणम्" इत्युक्तवचनात् । निर्णयामृते तु प्रतिकुर्वीत पारणमिति पाठः । न च भोजनस्य रागप्राप्तत्वेन विधित्वासम्भवात् तिथिनक्षत्रयोर्वियोगं विना न पारणं कुर्य्यादित्य कार्य इति वाच्यम् । “उपवासेषु सर्वेषु पूर्वाह्न पारणं भवेत् । अन्यथा तु फलस्याई धर्ममेवोपसर्पति" इति देवलवचने पारणनिय मात् । किञ्च यदि पारणमङ्गं न स्यात्तदा प्रतिनिधिविधानं नोपपद्येत । तथा च कात्यायनः " सन्ध्यादिकं भवेन्नित्य पारणन्तु निमित्ततः । श्रह्निस्तु पारयित्वा तु नैत्तिकान्त भुजि क्रिया" इति । अतएव हेमाद्रिप्रभृतिष्टतवचनं "तिथाक्षयोदाभेदो नचचस्यान्त एव वा । अर्धरात्रेऽथवा कुर्य्यात् पारयत्व परेऽहनि ॥ यदा रात्रेः साईप्रहरमतिक्रम्य तिथिनक्षत्रयोविच्छेदः अथवा केवलस्य नक्षत्रस्यान्तस्तदाऽपरेऽहनि उपवासपरदिने पारणं कुय्यात् नक्षत्रस्येत्ये कतरोपलक्षणम् । हेमाद्रिस्तु यदा परदिनेऽर्धरात्रादुपरिभान्तस्तिष्यन्तो वा भवति तदा अर्द्धरात्रे पारण कुय्यात् इत्याह । तन्न, वर्जयित्वा महानिशामिति वच्यमाणवचनविरोधात् श्ररात्रादुपरिभान्तस्तिथ्यन्तो वा भवतीत्यर्थं प्रमाणं नास्ति किन्त्वईरात्र एव तदधिकरणं सन्निधानात् तु कारेणाईरात्र व्यवद्यि उपवासदिनात् परदिने पारणं विधीयते । जौमूतवाहनस्तु न हि तिथिभान्ते च पारणमिति पारणकर्त्तव्यतापरं येन तदन्त एव विधिः । किन्तु नक्षत्र तिथौ च वर्त्तमाने न कुय्यादिति तात्पर्यं तत्रैव दोषश्रुतेः रागप्राप्तभोजनानुवा देन निथिनक्षत्रेतरकाले पारणं कुर्य्यादिति वा विधिः । स च राविशेषे भोजनेऽप्यविरुद्धः तृतीय एवाइनि पारणं
।
For Private And Personal Use Only