________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
४५ संयुका कृष्णा नभसि चाष्टमौ। मुहर्तमपि लभ्येत सैवोपोथा महाफला" ॥ वशिष्ठः “वासरे वा निशायां वा यदा युक्ता तु रोहिणौ। विशेषेण नमो मासि सैवोपोथा सदा तिथि: ॥ अनयोरेवकारश्रुतेः। “एकादशौशताद्राजन्नधिक रोहिणीव्रतम्। ततो हि दुर्लभं मत्वा तस्यां यत्नं समाचरेत् । इति ब्रह्माण्ड पुराणे रोहिणौव्रतमिति श्रवणाच्च बुधादिवाक्य न्तु न नियामकं प्रमाणाभावात् प्रत्युत फलश्रुतेर्गुणफलवोधत्वमिति। एवञ्च तिथिविशेषनियन्त्रितापवादविधावेवकारश्रुतेः षष्टिदण्डात्मिकामप्यष्टमी रोहिणीरहितां परिव्यज्य रोहिणीसहिता स्वल्पाप्यष्टमौ उपोष्था यदा तु परदिनेऽपि रोहिणीरहिता तदा पूर्वैवोपोथा। "षष्टिदण्डात्मिकायाश्च तिथेनिष्क मणे परे। अकर्मण्यं तिथिमलं विद्यादेकादशीं विना" इत्यनपोदित सामान्यविषयत्वात् वक्ष्यमाणवचनजाताच्च । यदा तूभयदिने जयन्तीयोगस्तदा परेशुरूपवास: सङ्कल्पकालमारभ्य तिथिव्याप्तिसम्भवात् अतएव वौधायन: “यो यस्य विहितः कालः कर्मणस्त दुपक्रमे। तिथिर्याभिमता सा तु काया नोपक्रमोज्मिता" ॥ सङ्कल्पकाल: प्रातरेव प्रातःसङ्कल्प येहिहानित्यादि वराहपुराणात् “प्रात:सध्या ततः कृत्वा सङ्कल्पं वध पाचरेत्” इति संवत्सरप्रदीपवचनात् “उदये तूपवासस्य नक्तस्यास्तमये तिथिः । मध्याइव्यापिनी ग्राह्या एकभक्ते सदा तिथिः” इति वौधायनवचनेनोपवासे उदयगामि तिथेविधानात् नक्षत्रस्यास्तनिशौधसम्बधेन बलवत्त्वात् तिथेस्त्रिसन्ध्यव्यापित्वाच। तथा च भविष्य पुराणविष्णुधर्मोत्तरयोः “उपोषितव्यं नक्षत्र येनास्तं याति भास्करः। यत्र वा युज्यते राम निशीथे शशिना सह" ॥ निशोथेऽईरात्रे। पराशरः । “त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः । न तत्र युग्मादरणमन्यत्र हरिवासरात्” । किं पुनर्नवमौयुक्ता इति लिखिष्यमाणवचनाञ्च । एतद्विषय एव ब्रह्मवैवर्तवचनं “वर्जनीया प्रयत्नेन सप्तमौ सहिताष्टमी। सा सांपि न कर्त्तव्या सप्तमी सहिताष्टमौ। अविद्यायान्त सओयां जातो देवकीनन्दनः" । यत्त विष्णुधर्मोत्तरे “जयन्ती
For Private And Personal Use Only