________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६०६ ग्रहश्वेदेकरेखास्थो वेधः सप्तशलाकजः॥ सप्त सप्त विलिखेत् प्ररेखिकास्तिर्यगूढ मथ कृत्तिकादिकम् । लेखयेदभिजिता समन्वितं चैकरेखगखगेन बिध्यते ॥ वैश्यस्य चतुर्थेऽ शे श्रवगादौ लिप्तिकाचतुष्क च। अभिजित् तत्स्थे खेचर विजेया रोहिणौ बिदा' ॥ लिप्तिका दण्डः। “यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे। रतांशुकेनैव तु रोदमाना श्मशानभूमि प्रमदा प्रयाति” ॥ सप्तशलाकवेधः।
अस्यापवादो यथा राजमार्तण्डे । “विषप्रदिग्धेन इतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते। यथा तथानाप्युडुपाद एव प्रदूषितोऽन्यधिपदं शुभावहम् ॥ ऊर्ल्ड रेखास्थिताः पञ्च तिर्यक् पञ्च तथैव च। हे हेच कोणयोरेखे साभिजित् वत्तिकादिकम् ॥ शम्भुकोणे द्वितीये तु लेखयेत् सर्वकर्माणि ।
रैभित्रमथो सौम्य नक्षत्र परिवर्जयेत् ॥ न वापाते च ये दोषा ये च सप्तशलाकके। ते सर्वे प्रभवन्त्यत्र नाना पञ्चशलाकके ॥ अथ चक्रानये कश्चित् पादवेध इहेष्यते" ॥ तदुक्तं रत्नमालायाम्। कैश्चित्तत्रापोथते पादवेध इति । इति पञ्चशलाकचक्रम्।
रत्नमालायाम्। 'ऋक्षं हादशमुष्णश्मिरवनीसूनुस्त तौयं गुरुः षष्ठं चाष्टममर्कजस्तु पुरतो हन्ति स्फुट न त्वया। पश्चात् सप्तमिन्दुजस्तु नवमं राहुः सितः पञ्चमं हाविंशं परिपूर्णमूर्तिरुडुपः सन्तायै बेतरत् । नत्वापातोऽयम्। “पापात् सप्तमगः शशौ यदि भवेत् पापेन वा संयुतो यत्नात्त परि. वर्जयेत् मुनिमतो दोषो ह्ययं कथ्यते । यात्रायां विपदो रहे सुतबधः क्षौरेषु रागोड़वोऽप्युद्दाहे विधवा व्रते च मरणं शूलञ्च पुस्कम्मणि"।
"रविमन्द कुजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत्। विवाह
For Private And Personal Use Only