________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
૨૦૨
fer कर्ममे क्लेश एव च । प्रधानार्थे प्रवासः स्यात् विनाशे बन्धुविग्रहः ॥ सामुदायिकभेरिष्टं हानि सांघातिके तथा । जातिभे कुलनाशः स्यात् बन्धनञ्चाभिषेकभे ॥ देशचें देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम् । उपग्रहसमायोगे मृत्युर्भवति नान्यथा ॥ भयं भङ्गश्च घातच मृत्युर्भङ्गयुता मृतिः । क्रूरैरका दिपचान्तैर्युधि वेधे फलं भवेत् ॥ तिथिं धिष्णं खरं राशि बलञ्चैव तु पञ्चमम् । यहिने वेधयेच्चन्द्रस्त हिने स्यात् शभाशुभम्” ॥
अथ बालादिचक्रम् | "ऋवर्णच वर्णश्च त्यक्क्षा कोष्ठेषु पञ्चसु । अकाराद्याः स्वरा लेख्या एकैकस्मिन् दिकं दिकम् ॥ कादिहान्तान् लिखेद्दर्णान् स्वराधो ङजणो झितान् । तिय्र्यक् पक्तिक्रमेणैव पञ्चत्रिंशत् प्रकोष्ठ के ॥ अकारादिक्रमात् न्यस्य नन्दादितिथिपञ्चकम् । अर्ककुजौ विधुक्षौ च गुरुः शक्रः शनिस्तथा ॥ वारा: कोष्ठेष्वथो लेख्या अखरे सप्तभानि घ। पच पच इकारादौ रेवत्यादिक्रमेण च ॥ प्रसुप्तो बोध्यते येन येनागच्छति शब्दितः । तस्य नाम्रस्त्वादिवर्णो यत्र तिष्ठेन्नरस्य च ॥ तस्माद्दालः कुमारश्च युवा वृद्धो मृतः क्रमात् । किञ्चिल्लाभकरी बालः कुमारस्त्वई लाभदः ॥ सर्वसिद्धि युवा धत्ते बढे हानिमृते क्षयः । यदि नाम्नि भवेद्दर्णः संयुक्ताचरलचणः प्रायस्तस्यादिमो वर्णः इत्युक्त ब्रह्मयामले ॥ तिथिवारर्श्वमेदेन प्रत्येकं बालकादिना । नामवर्णादितो ज्ञयं फलं पुंसां दिने दिने ॥ तिथ्यादिमेलनवशात् फलं ज्ञेयं शुभाशुभम् । यूनि चये शुभं पूर्णमशुभच मृतिचये । अन्यत्राप्येवमूह्य स्यात् शङ्करेण शुभाशुभम्” ॥
अथ विवाहः । “प्रसूत्याधानतः शुद्धिर्विषमेऽब्दे समे क्रमात् । विवाहे योषितां चन्द्रार्केज्यशुद्धि योषितोः ॥ सभर्त्तृक क्रिया
For Private And Personal Use Only