________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५६
प्रायश्चित्ततत्त्वम् । अथ रेतो मूत्रपुरोषभक्षणप्रायश्चित्तम्। वृहस्पतिः । अलेह्यानामपेयानामभक्ष्याणाञ्च भक्षणे। रेतोमूत्रपुरौषाणां शु। चान्द्रायणञ्चरेत्” । गोतमः। “अमत्या पाने पयो तमुदकं वायु प्रति नाहं पिबेत् सतप्तकच्छ्रः । ततः संस्कार: मूत्रपुरोषरतसां प्राशने चैवमिति" ॥ वायु तप्तदुग्धवाष्यम् अयं हादशाहसाध्यस्तप्त कच्छः। चान्द्रायगतप्त कच्छयोर्जानाजानाभ्यां व्यवस्था संस्कारस्तभयनव। चान्द्रायणे धेन्वष्टकं तप्तकच्छ धेनुचतुष्टयम्। उपनयनं चान्द्रायणसमम् । प्रायश्चित्तविवेककृतापि चाण्डालानभक्षणप्रायश्चित्ते तथा संकलनात्। उपनयने विशेषयति मनुः। “वपनं मेखला दण्डो भैच्याचार्या व्रतानि च। निवर्तेत हिजातीनां पुन: संस्कारकर्मणि" ॥ स्वाध्यायाद्यपेक्षा नास्तोत्याह यर्गः। “विप्रस्य क्षत्रियस्यापि मौजौ स्यादुत्तरायणे। दक्षिण च विशां कार्य नानध्याये न संक्रमे ॥ अनध्यायेऽपि कुर्वीत यस्य नैमित्तिक भवेत्" ॥ अपिना दक्षिणायन कृष्णपक्षयोः समुच्चयः। मलमासादिदोषोऽप्यत्र नास्ति प्रायश्चित्तरूपत्वेन प्रतिप्रसूतत्वात् । तथा च दक्षः। “नैमित्तिकानि काम्यानि निपतन्ति यथा यथा। तथा तथैव कार्याणि न कालस्तु विधीयते" ॥ संवतः । "विण्म वभक्षणे विप्रः प्राजापत्य समाचरेत्” ॥ एतबलात्कारविषय इति प्रायश्चित्तविवेकः । वस्तुतस्तु अज्ञानाइलात्कारे
आधिक्यं प्राक् प्रतिपादितम् । अत्र उनैकादशवर्षीयबालविषयमिदम्। क्षत्रियादी पादपादहानिः ।
अथोच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् । आपस्तम्बः । "भुत्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः खपचेन वा। प्रमादात् स्पर्शनं गच्छत् तत्र कु-हिशोधनम् ॥ गायनप्रष्टस हवन्तु द्रुपदां वा शतं जपेत्। विरात्रोपोषितो भूत्वा मव्येन
For Private And Personal Use Only