________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
संवत्सरप्रदीपतं तथा "एकेनैवोपवासेन कृतेन कुरुनन्दन !। सप्तजन्म कृतात् पापान्मुच्यते नात्र संशयः ॥ ग्राहमुपक्रम्य तथा "तन्मध्ये प्रतिमा स्थाप्या काञ्चनादिविनिर्मिता। प्रतप्तकाञ्चनाभासा देवको सुतपस्विनी॥ माच्चापि बालकं सुप्तं प्रसूता नौरदच्छविम्। वसुदेवोऽपि तत्रैव खङ्गचर्मधरः स्थितः॥ यशोदा चापि तत्रैव प्रसूतवरकन्यका। वलभदस्तथा नन्दो दक्षो गर्गश्चतुर्मुखः ॥ एवं प्रपूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः” । तथा "स्थण्डिले स्थापयेद्देवों सचन्द्रां रोहिणी तथा। देवकी वसुदेवञ्च यशोदा नन्दमेव च ॥ चण्डिकां वलदेवं संपूज्य पापैः प्रमुच्यते । अर्द्धरात्रे वसोर्धारां पातयेद्गुड़सर्पिषा । ततो वापनं षष्ठों नामादेः करणं मम। कर्त्तव्यं तत्क्षणादात्री प्रभाते नवमौदिने। यथा मम तथा कार्यो भगवत्या महोत्सवः ॥ ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । सुवर्ण काञ्चनं गाश्च वासांसि कुसुमानि च ॥ यद्यदिष्टतम लोके कृष्णो मे प्रोयतामिति। यं देवं देवकी देवी वसुदेवादजीजनत् ॥ भौमस्य ब्राह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः । सुब्रह्म वासुदेवाय गोब्राह्मणहिताय च ॥ शान्तिरस्तु शिवजास्तु इल्युत्वा तान् विसर्जयेत्। एवं यः कुरुते देव्या देवक्या: सुमहोत्सवम् ॥ वर्षे वर्षे भगवतो मद्भक्तो धर्मनन्दन !॥ नरो वा यदि वा नारौ यथोक्त फलमाप्नुयात्। पुत्रसन्तानमारोग्यं धनधान्यति मद्ग्रहम्" ॥ तथा “मम्पर्केणापि यः कुर्यात् कश्चिजन्माष्टमीव्रतम्। विष्णु लोकमवाप्नोति सोऽपि नास्त्यत्र संशयः ॥ जयंत्यामुपवासश्च महापातकनाशकः । मः कार्यो महाभक्त्या पूजनौयश्च के शवः ॥ तुध्यर्थं देवको. सूनोजयन्तौसंज्ञक व्रतम्। कर्तव्यं चिन्तमानेन भत्त्या भक्तजनैरिह ॥ अकुर्वन् निरयं याति यावदिन्द्राश्चतुर्दश” । वापनं नाडीच्छेदनम्। सुवर्णमत्राशौतिरत्तिकापरिमितं हेम काञ्चनं ततो न्यूनं काञ्चनमित्यत्र मेदिनौमिति क्वचित् पाठः। भौमस्य पृथिवीमम्बन्धिनः कृष्णो मे प्रौयता मित्यत्वा दद्यादित्यनेनान्वयः। तान् ब्राह्मणान् भक्तजनैरिति तैः सहे. त्यर्थः अतएव विष्णुपुराणम् । “सहत सन्निकर्षो हि क्षणाई.
For Private And Personal Use Only