________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५४८ पहिरो वचने पतितपदस्य सर्वधर्मवरिष्कृतवाचिन: प्रायश्चि
गोरवेण चाण्डालजातिसारचर्येव च जवनादिम्लेच्छजातिवाचित्वं न तु ब्रह्महत्यादिपतितवाचित्वं तत्र सक्कच्छिष्टाशने खल्पप्रायश्चित्तत्वात्। अतएव ब्रह्महत्यादि उच्छिष्टाशने जानान्मासत्रयादेवसाम्यं प्रायश्चित्तविवेकवद्भिः संसर्गिप्रकरणे उलम्। पत्र तु ज्ञानेन हादशवारात्तथेति जवनादौनान्तु सर्वधर्मराहित्यमुक्तम् हरिवंशे। "सगरस्तां प्रतिज्ञाच गुरो.
क्यं निशम्य च। धर्म जघान तेषां वै वेशान्यत्वं चकार ।। भई पकानां शिरसो मुण्डयित्वा व्यसर्जयत्। जवनानां शिरः सर्व काम्बोजानान्तथैव च। पारदा मुक्तकेशाच पड़वाः श्मश्रुधारिणः। निःसाध्यायवषट्काराः कृतास्तेन महात्मना। शका जवनकाम्बोजा: पारदाः पङ्गवास्तथा। कोलिसर्पाः समहिषा दर्वाचोला: सकेरलाः। वशिष्ठवचना. द्राजन् सगरेण महात्मना । शकानां शकदेशोद्भवानां चवि. याणाम् एवं जवनादौनामिति। पत्र जवनशब्दस्तद्देशोद्धव. वाचौ चवर्ग बतौयादिः। जवनो देशवेगिनोरिति विकाण्डशेषाभिदर्शनात्। तेषां म्लेच्छत्वमप्युक्तं विष्णु पुगणे। तथा कृतान् जवनादौनुपक्रम्य ते चात्मधर्मपरित्यागात् म्लेच्छत्वं ययुरिति। वौधायनः । “गोमांसवादको यश्च विरुद्ध बहुभाषते। सर्वाचारविहीनच म्लेच्छ इत्यभिधीयते"। अतएव चाण्डालेन सह म्लेच्छानां साम्यमाह देवन्तः। "दामोक्कतो. बलात् म्लेच्छ चाण्डालाद्यैव दस्युभिः। अशुभ कारितः कर्म गवादेः प्राणहिंसनम्। उच्छिष्टमार्जनश्चैव तथा तस्यैव भक्षणम् ॥ खरोष्ट्रविड़ वराहाणामामिषस्य च भक्ष गम् । तत् स्त्रोणाञ्च तथा सङ्गस्ताभिच सह भोजनम्॥ मासोषिते विजातौ च प्राजापत्य विशोधनम्। चान्द्रायणवाहिताग्नेः
For Private And Personal Use Only