________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४८
प्रायश्चित्ततत्त्वम् ।
रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । भुक्का चान्यतमस्थानममत्या चपणं वाहम्” इति । त्रिरात्रोपवासविधायकं तदा मानविषयं लघुप्रायश्चित्तत्वात् तत् वृत्तिहीन द्दिजपरमिति प्रायश्चित्तविवेकः । चाण्डालावेन तु प्रायवित्तलाघवात् सकदज्ञानादापमुक्तोत्तारितादिविशिष्टविषयम् । तथा चोत्तारादपि पापचयमाह मनुः । "अभोज्यमचं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानाद भुक्तमुत्ताय्यं शोध्य वाप्याश शोधनैः” प्रमादाद्भुक्त वमितव्यम् । तदसम्भवे यथोक्तप्रायश्वित्तैः शोधनौयम् वमनपक्षेऽपि अल्पप्रायश्चित्तं भवत्येव विष्णुसूत्रे तथा दर्शनात् तद् यथा । " आमश्रादाने त्रिरात्रं पयसा वर्त्तेत ब्राह्मणः शूद्रोच्छिष्टाशने वसनं कृत्वा सप्तरात्रमुपवसेदिति" ॥ आमश्राद्ध गर्हितैर्यत् क्रियते पयसा चौरेण तत्राप्यायुर्वेदोक्त परिभाषा । " पयः सर्पिः प्रयोगेषु गव्यमेवाभिधीयते । विशेषो यत्र मोक्तः स्यादेष तव विधिः स्मृतः” । एवम् उच्छिष्टे यः पराक् उक्तोऽङ्गिरसा सोऽपि प्रागुक्तसक्कदापदादिविषये बोध्यः । विष्णुनापि अनुच्छिष्टे पराकोक्तः । तथा चाङ्गिराः । " चण्डालपतितादोनामुच्छिष्टान्नस्य भक्षणे । दिजः शुडेत् पराकेण शूद्रः कृच्छ्रेण शहाति” । यत्तु मिताचरायामापस्तम्बः । “अन्त्यानां भुक्तशेषन्तु भचयित्वा द्विजातयः । चान्द्र कच्छ तदन्तु ब्रह्मक्षafari विधिः” । चान्द्रं चान्द्रायणम् । कृच्छ तप्तकृच्छ्रम् एतञ्च ब्राह्मणस्य सकृदन्ज्ञानविषयं बलात्कारानुत्तारेऽप्यन्नेतरताम्बूलाद्युत्सृष्टपरश्च तत्राज्ञाने श्रापस्तम्बेन उच्छिष्टे चान्द्रायणविधानात् अङ्गिरसा अन्त्यावसायिनामित्यादि प्रागुक्तवचने सामान्यतस्तप्तकृच्छ विधानात् अनुच्छि - ष्टेऽपि तथात्वादेव सर्वत्रानुच्छिष्टादुच्छिष्ट द्वैगुण्यं बोध्यम् । प्रायश्चित्तविवेके संसर्गप्रकरणेऽप्येवं चत्रियविशोश्चापदि शेयम् ।
For Private And Personal Use Only