________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५३८
प्रायश्चित्ततत्त्वम् । इति । पस्यार्थः यत्र विक्रौताः सन्तः पशवो हिंस्यन्ते तत्र तेषामपण्यत्वमिति प्रायश्चित्तविवेकः। अपण्यानाञ्च विक्रय इति मनुनोपपातकगणने पठितम्। विष्णुना च "उपपातकिन स्त्वे ते कुर्युचान्द्रायणं नराः । इत्यनेन चान्द्रायणं विहितम्। तत्र पापस्य लनुत्वाच्चान्द्रायणपदं शिशुचान्द्रायणपरम्। तत्यादोनधेनुचतुष्टयेन संकलितं प्रायश्चित्तविवेकेन । एतहिषय एव “चान्द्रायणमकुर्वाणाः कुर्युः कच्छचतुष्टयम्" इति समूलत्वे बोध्यं बधे त्वज्ञानबधोक्त साईधेन्वष्टकम् एतदपि गुरुत्वात् ब्राह्मणखामिकविषय म्। ते नान्यत्र गोमांस. खादकसम्बन्धि-विक्रयादिमात्र त्वज्ञानकततत्तत्स्वामिकबधप्रायश्चित्ताई बधे सम्पर्णमिति। रहः कृतेषु प्रकीर्णोपपातकानुपातकमहापातकेषु गायत्रयाः शतसहस्रायुतलक्षजयः । तथा च मिताक्षरायाम। गायत्रीमधिकृत्य शहेनोक्ताम् । “शतं जप्ता तु सा देवी सर्वपापप्रणाशिनी। सहस्र जप्ता च तथा पातकेभ्यः प्रमोचिनौ ॥ दशसाहस्रजापेन सर्वकल्मषनाशिनी। लक्षं जप्ता तु सा देवी महापातकनाशिनौ” ॥ कल्पतरौ यमः। “मायत्रया: पादमई वा ऋचः सर्वमेव वा। ब्रह्म इत्या सुरापानं सुवर्णहरणन्तथा ॥ गुरुदाराभिगमनं पञ्चा. न्यत् पातकं महत्। सर्वमेतत् पुनात्याह स्वयं देवखतो यमः" । वौधायन: । पूर्वाभिर्व्यातिभिः सर्वपातकेष्वाचामेत् । तस्मादेवाचमनात् सर्वस्मात् पापात् प्रमु. यते" ॥ अपहारे तु जावालः। “अखगोभूमिकन्याश्च हृत्वा चान्द्रायणञ्चरेत्। तुद्रपशूनपहृत्य प्राजापत्यं समाचरेत्”॥ चान्द्रायणे धेन्वष्टकम्। प्राजापत्ये धेनुरेका । बालादौनामदादि। “अनाहिताग्नितास्तेय मृणानाञ्चानपक्रिया' ॥ इत्यनेन मनुना उपपातकगणने महापातकानुप
For Private And Personal Use Only